________________
तत्त्वबोधविधायिनी व्याख्या ।
नस्थासमवतारो दुर्निवार इति। अथ प्रमाणकारणगुणज्ञानं स्वकारणगुणज्ञानानपेक्षमेव प्रमाणकारणगुणपरिच्छेदलक्षणे स्वकार्ये प्रवर्तते, तर्हि प्रमाणमपि स्वकारणगुणज्ञानानपेक्षमेवार्थपरिच्छेदलक्षणे स्वकार्ये प्रवतिष्यत इति व्यर्थ प्रमाणस्य खकारणगुणज्ञानापेक्षणमिति न स्वकार्ये प्रवर्त्तमानं प्रमाणमन्यापेक्षम् । तदुक्तम्
“जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते । यावत्कारणशुद्धत्वं न प्रमाणान्तराद्गतम् ॥१॥ तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् । यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत्समा ॥ २ ॥ तस्यापि कारणाशुद्धेर्न ज्ञानस्य प्रमाणता ।
तस्याप्यवमितीच्छंस्तु न कचियवतिष्ठते" ॥ ३ ॥ इति। तेन 'थे प्रतीक्षितप्रत्ययान्तरोदयाः' इति प्रयोगे हेतोरसिद्धिः । तस्मात् स्वसामग्रीत उपजायमानं प्रमाणमर्थयाथात्म्यपरिच्छेदशक्तियुक्तमेवोपजायत इति स्वकार्येऽपि प्रवृतिः खत इति स्थितम् । नापि प्रमाणं प्रामाण्यनिश्चयेऽन्यापेक्षम् । तद्यपेक्षमाणं किं स्वकारणगुणानपेक्षते, आहोस्वित् संवादमिति विकल्पवयम् । तत्र यदि स्वकारणगुणानपेक्षत इति पक्षः कक्षीक्रियते । सोऽसंगतः । स्वकारणगुणानां प्रत्यक्षतत्पूर्वकानुमानाग्राह्यत्वेनासत्त्वस्य प्रागेव प्रतिपादनात् । अथाभिधीयते यो यः कार्यविशेषः स स गुणवत्कारणविशेषपूर्वको, यथा प्रासादादिविशेषः। कार्यविशेषश्च यथावस्थितार्थपरिच्छेद इति स्वभावहेतुरिति। एतदसम्बद्धम् । परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्वासिद्धेः। तथाहि । परिच्छेदस्य यथावस्थितपरिच्छेदत्वं किं शुद्धकारकजन्यत्वेन, उत संवादित्वेनाहोस्विद् बाधारहितत्वेन, उतस्विद् अर्थतथात्वेनेति विकल्पाः। तत्र यदि गुणवत्कारणजन्यत्वेनेति पक्षः।सन युक्तः। इतरेतराश्रयदोषप्रसङ्गात् । तथाहि । गुणवत्कारणजन्यत्वेन परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्वम् , तत्परिच्छेदत्वाच्च गुणवत्कारणजन्यत्वमिति परिस्फुटमितरेतराश्रयत्वम् ॥ अथ संवादित्वेन ज्ञानस्य यथावस्थितार्थपरिच्छेदत्वं विज्ञायते। एतदप्यचारु। चक्रकप्रसङ्गस्यात्र पक्षे दुर्निवारत्वात्। तथाहि। न यावद्विज्ञानस्य यथावस्थितार्थपरिच्छेदलक्षणो विशेषः सियति, न तावत्तत्पूर्विका प्रवृत्तिः,