________________
सम्मतिताख्यप्रकरणस्य
किंचोक्तम्
“आत्मलाभे हि भावानां कारणापेक्षिता भवेत् ।
लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु"॥१॥ तथाहि । मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते, उदकाहरणे तस्य तदपेक्षा न विद्यत इति ॥ अथ चक्षुरादेर्विज्ञानकारणादुपजायमानवात्प्रामाण्यं परत उपजायत इति यद्यभिधीयते; तदभ्युपगम्यत एव। प्रेरणाबुद्देरपि अपौरुषेयविधिवाक्यप्रभवायाःप्रामाण्योत्पत्त्यभ्युपगमात्।तथाऽनुमानबुद्धिरपि गृहीताविनाभावानन्यापेक्षलिङ्गादुपजायमाना तत एव गृहीतप्रामाण्योपजायत इति सर्वत्र विज्ञानकारणकलापव्यतिरिक्तकारणान्तरानपेक्षमुपजायमानं प्रामाण्यं स्वत उत्पद्यत इति नोत्पत्तौ परतः प्रामाण्यम् ॥नापि स्वकार्येऽर्थतथाभावपरिच्छेदलक्षणे प्रवर्त्तमानं प्रमाणं खोत्पादककारणव्यतिरिक्तनिमित्तापेक्षं प्रवर्त्तत इत्यभिधातुं शक्यम्। यतस्तन्निमित्तान्तरमपेक्ष्य स्वकार्ये प्रवर्त्तमानं किं संवादप्रत्ययमपेक्ष्य प्रवर्तते, आहोस्वित्स्वोत्पादककारणगुणानपेक्ष्य प्रवर्त्तत इति विकल्पद्वयम्। तत्र यद्याद्यो विकल्पोऽभ्युपगम्यते, तदा चक्रकलक्षणं दूषणमापतति। तथाहि। प्रमाणस्य स्वकार्ये प्रवृत्तौ सत्यामर्थकियार्थिनां प्रवृत्तिः; प्रवृत्तौ चार्थक्रियाज्ञानोत्पत्तिलक्षणः संवादः; तं च संवादमपेक्ष्य प्रमाणं स्वकार्येऽर्थतथाभावपरिच्छेदलक्षणे प्रवर्त्तत इति यावत्प्रमाणस्य स्वकार्ये न प्रवृत्तिर्न तावदर्थक्रियार्थिनां प्रवृत्तिः; तामन्तरेण नार्थक्रियाज्ञानसंवादः; तत्सद्भावं विना प्रमाणस्य तदपेक्षस्य स्वकार्येन प्रवृत्तिरिति स्पष्टं चक्रकलक्षणं दूषणमिति। न चभाविनं संवादप्रत्ययमपेक्ष्य प्रमाणं खकार्ये प्रवर्त्तत इति शक्यमभिधातुम्।भाविनोऽसत्त्वेन विज्ञानस्य स्वकार्ये प्रवर्त्तमानस्य सहकारित्वासंभवात् ।अथ द्वितीयः। तत्रापि किं गृहीताः स्वोत्पादककारणगुणाः सन्तः प्रमाणस्य स्वकार्ये प्रवर्त्तमानस्य सहकारित्वं प्रपद्यन्ते, आहोस्विदगृहीता इत्यत्रापि विकल्पद्वयम्। तत्र यद्यगृहीता इति पक्षः। सन युक्तः। अगृहीतानां सत्त्वस्यैवासिद्धेः सहकारित्वं दूरोत्सारितमेव । अथ द्वितीयः। सोऽपि न युक्तः। अनवस्थाप्रसंगात् । तथाहि । गृहीतस्वकारणगुणापेक्षेप्रमाणं स्वकार्ये प्रवर्त्तते; स्वकारणगुणज्ञानमपि स्वकारणगुणज्ञानापेक्षं प्रमाणकारणगुणपरिच्छेदलक्षणे स्वकार्ये प्रवर्तते, तदपि स्वकारणगुणज्ञानापेक्षमित्य