________________
सम्मतिताख्यप्रकरणस्यसंवादार्थिनां यावच्च न प्रवृत्तिर्न तावदर्थक्रियासंवादः; यावच्च न संवादो न तावद्विज्ञानस्य यथावस्थितार्थपरिच्छेदत्वसिद्धिरिति चक्रकप्रसङ्गः प्रागेव प्रतिपादितः ॥ अथ बाधारहितत्वेन विज्ञानस्य यथार्थपरिच्छेदत्वमध्यवसीयते। तदप्यसङ्गतम्। स्वाभ्युपगमविरोधात्।तदभ्युपगमविरोधश्च बाधाविरहस्य तुच्छस्वभावस्य सत्त्वेन, ज्ञापकत्वेन वाऽनङ्गीकरणात्। पर्युदासवृत्त्या तदन्यज्ञानलक्षणस्य तु विज्ञानपरिच्छेदविशेषाविषयत्वेन तद्व्यवस्थापकत्वानुपपत्तेः॥अथार्थतथात्वेन यथावस्थितार्थपरिच्छेदलक्षणो विशेषो विज्ञानस्य व्यवस्थाप्यते । सोऽपि न युक्तः । इतरेतराश्रयदोषप्रसङ्गात्। तथाहि । सिद्धेऽर्थतथाभावे तद्विज्ञानस्यार्थतथाभावपरिच्छेदत्वसिद्धिः, तत्सिद्धेश्चार्थतथाभावसिद्धिरिति परिस्फुटमितरेतराश्रयत्वम्।तन्न का. रणगुणापेक्षा प्रामाण्यज्ञप्तिः॥ अथ संवादापेक्षःप्रामाण्यविनिश्चयः। सोऽपिन युक्तः। यतः संवादकं ज्ञानं किं समानजातीयमभ्युपगम्यते, आहोस्विद् भिन्नजातीयमिति पुनरपि विकल्पद्वयम्। तत्र यदि समानजातीयं संवादकमभ्युपगम्यते, तदाऽत्रापि वक्तव्यम् । किमेकसन्तानप्रभवं, भिन्नसन्तानप्रभवं वा । यदि भिन्नसन्तानप्रभवं स. मानजातीयं ज्ञानान्तरं संवादकमित्यभ्युपगमः। अयमप्यनुपपन्नः । अतिप्रसंगात् । अतिप्रसंगश्च देवदत्तघटविज्ञानं प्रति यज्ञदत्तघटान्तरविज्ञानस्यापि संवादकत्वप्रसक्तेः । अथ समानसन्तानप्रभवं समानजातीयं ज्ञानान्तरं संवादकमभ्युपगम्यते; तदात्रापि वक्तव्यम् । किं तत् पूर्वप्रमाणाभिमतविज्ञानगृहीतार्थविषयम् , उत भिन्नविषयमिति। तत्र यद्येकार्थविषयमिति पक्षः। सोऽनुपपन्नः। एकार्थविषयत्वे संवाद्यसंवादकयोरविशेषात् । तथाहि । एकविषयत्वे सति यथा प्राक्तनमुत्तरकालभाविनो विज्ञानस्यैकसन्तानप्रभवस्य समानजातीयस्य न संवादकं, तथोत्तरकालभाव्यपि न स्यात् । किंच। तदुत्तरकालभावि समानजातीयमेकविषयं कुतः प्रमाणमेव सिद्धम्, येन प्रथमस्य प्रामाण्यं निश्चाययति । तदुत्तरकालभाविनोऽन्यस्मात्तथाविधादेवेति चेत् : तर्हि तस्याप्यन्यस्मात्तथाविधादेवेत्यनवस्था । अथोत्तरकालभाविनस्तथाविधस्य प्रथमप्रमाणात्प्रामाण्यनिश्चयः; तर्हि प्रथमस्योत्तरकालभाविनः प्रमाणात्तन्नि
नामालभाविनोऽपि प्रथमप्रमाणादिति तदेवेतरेतराश्रयत्वम् । अथ प्रथ