________________
सम्मतिताख्यप्रकरणस्यइन्द्रियसंस्कारकेषु समानेन्द्रियग्राह्ये समानदेशेऽर्थे प्रतिनियतविषयग्राहकत्वेन, इन्द्रियान्तरविषयग्राहकत्वेन च इन्द्रियसंस्कारकत्वस्यादर्शनात्, अत्यन्तासंभविनो नापत्तिसामर्थ्यात्कल्पना युक्ता । कारकाणां तु प्रतिनियतकार्यकर्तृत्वस्यान्यत्राप्युपलब्धेः प्रतिनियतवर्णोत्पादनसामर्थ्यभेदस्य ताल्वादिप्वपत्तितः कल्पना संभाव्यत एव । किंच । इन्द्रियं संस्कुर्वद् व्यञ्जकं यदि यथावस्थितवर्णग्राहकत्वेनेन्द्रियसंस्कारं विदध्यात्, तदा सकलनभस्तलव्यापिनो गादेः प्रतिपत्तिः स्यात् । नचासौ दृष्टा । अथान्यथा न तर्हि वर्णस्वरूपप्रतिभास इति न तत्स्वरूपसिद्धिः; तन्न श्रोत्रसंस्कारोऽप्यभिव्यक्तिः॥ नाप्युभयसंस्कारोऽभिव्यक्तिः, प्रत्येकपक्षोक्तदोषप्रसङ्गात् । नचान्यप्रकारः संस्कारोऽभिव्यक्तिः संभवति । तदभिव्यक्तेरसंभवात् । नानभिव्यक्तिनिमित्तोऽन्तराले गादीनामनुपलम्भः किन्तु दलितनखशिखरादिष्विवाभावनिमित्तः, इति लूनपुनर्जातनखादिष्विवापान्तरालादर्शनेन गादिप्रत्यभिज्ञाया बाध्यमानत्वादप्रामाण्यम्। अथ खण्डितपुनरुदितकररुहसमूहविषयाया अपि प्रत्यभिज्ञायास्तत्सामान्यवि. षयत्वेन नाप्रामाण्यम्; तस्यास्तद्विषयतयाऽवाध्यमानत्वात् । नचायं प्रकारो गादिविषयप्रत्यभिज्ञायाः सम्भवति । तथाभूतकेशादिष्विव गादिभेदविषयाबाधितप्रतिभासाभावेन तद्देदासिद्धौ, समानानां भावः सामान्यमिति कृत्वा तत्र सामान्यस्यैवासम्भवात् । असदेतत् । गादिष्वपि पूर्वोपलब्धगादेः सकाशादयमल्पो महान् कर्कशो मधुरो वा गादिरित्यबाधिताक्षजप्रतिभाससद्भावेन भेदनिबन्धनसा. मान्यसम्भवस्य न्यायानुगतत्वात् । नच यथा तुरगजवस्य पुरुषेऽध्यारोपात्पुरुषो यातीति प्रत्ययो व्यपदेशश्च, तथा व्यञ्जकध्वनिगतस्याल्पकर्कशादेर्गादावुपचारात् तथा प्रत्ययो, व्यपदेशश्वेत्यभ्युपगन्तुं शक्यम् । तथाऽभ्युपगमे, वाहीके गो. प्रत्ययवद्, गादिप्रत्ययस्य भ्रान्तत्वेनगादिस्वरूपासिद्धिप्रसङ्गात् । नहि भ्रान्तप्रत्ययसंवेद्या द्विचन्द्रादयः स्वरूपसंगतिमनुभवन्ति । नचाल्पमहत्त्वप्रत्यययोन्तित्वे, अल्पमहत्त्वे एव गादिविषये अव्यवस्थितस्वरूपे; न पुनर्गादिको वर्णः। तत्प्र. त्ययस्याभ्रान्तत्वात् । नचान्यविषयप्रत्ययस्य भ्रान्तत्वेऽन्यस्य तथाभावोऽतिप्र. सङ्गादिति वक्तुं युक्तम् । यतो यद्यल्पमहत्त्वादिधर्मव्यतिरिक्तस्य गादेः,द्वित्वर