________________
तत्त्वबोधविधायिनी व्याख्या ।
६३
हितस्येव निशीथिनीनाथस्य, प्रत्ययविषयत्वं स्यात् तदैव तद्युज्येतापि वक्तुम् । नच स्वप्रेऽपि तद्धर्मानध्यासितो गादिः केनचित् प्रतीयत इति कथं तस्य महत्त्वादिधर्मरहितस्य स्वरूपव्यवस्था । अत एव महत्त्वादिधर्मयुक्तस्य सर्वदा प्रतीयमानत्वाद् गादेर्न तद्धर्मयुक्ततया प्रतीयमानस्य, उपचरितप्रत्ययविषयता ॥
तदुक्तम्:
“यो ह्यन्यरूपसंवेद्यः संवेद्येतान्यथाऽपि वा ।
सभ्रान्तो, नतु तेनैव यो नित्यमुपलभ्यते ॥ १ ॥ इति । तन्न व्यञ्जकधर्माध्यारोपादुपचरितप्रत्ययविषयत्वं तथाभूतस्य गादेः । सर्वभावानामुपचरितप्रत्ययविषयत्वेन स्वरूपाभावप्रसङ्गात् । नच व्यञ्जकस्य प्रदीपादेरल्प महत्त्वभेदात् व्यङ्ग्यस्य घटादेरल्पमहत्त्वभेदप्रतिभासो दृष्टः ॥ अथ व्यञ्जकधर्मानुकारित्वं व्यङ्ग्ये उपलभ्यते । तथाहि । एकस्वरूपमपि मुखं, खड्गे प्रतिबिम्बितं दीर्घम्, आदर्शे वर्तुलं, नीलकाचे गौरमपि श्यामं व्यञ्जकधर्मानुकारितया प्रतिभासविषयमुपलभ्यत इति प्रकृतेऽपि तथा स्यात् । एतदप्यसङ्गतम् । दृष्टान्तमात्रादर्थासिद्धेः । तस्य हि साध्यसाधनप्रतिबिम्बसाधकप्रमाणविषयतया साध्यसिद्धावुपयोगो, न स्वतन्त्रस्य । अन्यथा 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः' इत्यादिदृष्टान्तमात्रतो, अद्वैतवादिनोऽपि पुरुषाद्वैतसिद्धेः, शब्दस्वरूपस्याप्यभावात् कस्योपचारात् महत्त्वादिप्रतिभास इत्युच्यते । मुखादीनां च च्छाया खड्गादौ संक्रान्ता तद्धर्मानुकारिणी प्रतिभाति, न मुखादयः । नच गादीनां छाया व्यञ्जकध्वनिसंक्रान्ता तद्धर्मानुकारिणी प्रतिभातीति शक्यं वक्तुम् । शब्दस्य भवताऽमूर्त्तत्वेनाभ्युपगमात् । अमूर्त्तस्य च मूर्त्तध्वनौ छायाप्रतिबिम्बनासंभवात् । मूर्त्तानामेव हि मुखादीनां मूर्त्ते आदर्शादौ छायाप्रतिबिम्बनं दृष्टं, नामूर्त्तानामात्मादीनाम् । अदृष्टे च ध्वनौ छाया प्रतिबिम्बिताऽपि न गृह्येत, कथं तद्धर्मानुकारितया प्रतीतिविषयः । नच ध्वनेः शब्दप्रतिभासकाले श्रवणप्रतिपत्तिविषयत्वम् । उभयाकारप्रतिपत्तेरसंवेदनात् । तन्न व्यञ्जके ध्वनौ प्रतिबिम्बिता गकारादिच्छाया प्रतिभाति । नाप्यमूर्त्ते गादौ ध्वनिच्छायाप्रतिबिम्बनं युक्तम् । अमूर्त्ते आकाशादौ घटादिच्छायाप्रतिबिम्बना