________________
तत्त्वबोधविधायिनी व्याख्या ।
तेषां यथाऽन्यगकारादि जनकैः संयोगविभागैर्नान्यो वर्णों जन्यते, तथाऽस्मत्पक्षेऽपि नान्यवर्णग्राहकश्रोत्रसंस्काराधायकव्यञ्जकप्रेरकैरन्यवर्णग्राहक श्रोत्रसंस्काराधायक - वायुप्रेरणं क्रियत इत्युत्पत्त्यभिव्यक्तिपक्षयोः कार्यदर्शनान्यथाऽनुपपत्त्या समः सामर्थ्यभेदः प्रयत्नविवक्षयोः सिद्धः ॥ अतश्च यदुक्तं कैश्चित् । समानेन्द्रियग्राह्येष्वर्थेषु व्यञ्जकेषु न दृष्टो नियम इति । एतदयुक्तम् । अर्थापत्तेर्दृष्टान्तानपेक्षत्वात् । दृष्टश्च तैलाभ्यक्तस्य मरीचिभिः, भूमेस्तूदकसेकेन गन्धाभिव्यक्तिभेद इति कथं न व्यञ्जक नियमः ॥
तदुक्तम्:
"व्यञ्जकानां हि वायूनां भिन्नावयवदेशता । जातिभेदश्व, तेनैव संस्कारो व्यवतिष्ठते ॥ १ ॥ अन्यार्थ प्रेरितो वायुर्यथाऽन्यं न करोति वः । तथाऽन्यवर्णसंस्कारशक्तो नान्यं करिष्यति ॥ २ ॥ अन्यैस्ताल्वादिसंयोगैर्नान्यो वर्णो यथैव हि ।
तथा ध्वन्यन्तराक्षेपो न ध्वन्यन्तरसारिभिः ॥ ३॥ तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापतितः समः ।
६१
सामर्थ्यभेदः सर्वत्र स्यात् प्रयत्नविवक्षयोः " ॥ ४ ॥ इति । एतदसंबद्धम् । इन्द्रियसंस्कारकाणां व्यञ्जकानां, समानदेशसमानेन्द्रियग्राह्येष्वर्थेषु प्रतिनियतविषयग्राहकत्वेनेन्द्रिय संस्कारकत्वस्य कदाचिददर्शनात् । नह्यखनादिना संस्कृतं चक्षुः सन्निहितं स्वविषयं किञ्चित्पश्यति, किञ्चिन्नेत्युपलब्धम् । तथा बाधिर्यनिराकरणद्वारेण वलातैलादिना संस्कृतं श्रोत्रं स्वग्राह्यान् गकारादीन् वर्णानविशेषेणैवोपलभमानमुपलभ्यते । एवं घ्राणादीनीन्द्रियाणि स्वव्यञ्जकैः संस्कृतानि स्वविषयग्राहकत्वेनाविशेषेण प्रवर्त्तमानानि प्रतीयन्त इति प्रकृतेऽ प्ययमेव न्यायो युक्तः ॥ यश्च तैलाभ्यक्तस्य मरीचिभिः, भूमेस्तूदकसेकेन गन्धाभिव्यक्तिरिति व्यञ्जकं प्रति नियमो दर्शितः; सोऽपि विषयसंस्कारकव्यञ्जकप्रतिनियमो, नेन्द्रिय संस्कारकव्यञ्जकप्रतिनियमः । विषयसंस्कार केष्वप्ययं नियमो भिन्नदेशेषु दर्शितो, न समानदेश समानेन्द्रियग्राह्येषु । तत