________________
सम्मतिताण्यप्रकरणस्य
उत्पत्तिपक्षे तु अव्यापकत्वात् यत्समीपवर्ती वर्ण उत्पन्नस्तेनैवासौ गृह्यते, न दूरस्थैरिति युक्तम्। दिग्देशाद्यविभागेनेति चातीवासङ्गतम्। अविभागस्य कस्यचिद्वस्तुनोऽसंभवेनानभ्युपगमात् । किंच । व्यापकत्वेन वर्णानामेकवर्णावरणापाये, समानदेशत्वेन सर्वेषामनावृतत्वात्, युगपत्सर्ववर्णश्रुतिश्च स्यात् । अथापि स्यात् ; प्रतिनियतवर्णश्रवणान्यथाऽनुपपत्त्या व्यञ्जकभेदसिद्धेः, प्रतिनियतैय॑ञ्जकैः प्रति. नियतावारकनिराकरणद्वारेण प्रतिनियतवर्णसंस्कारात् न युगपत्सर्ववर्णश्रुतिदोषः । स्यादेतत्, यदि व्यञ्जकानां वायूनां भेदः स्यात् । स चावारकभेदनिबन्धनः । अन्यथा तदभेदेऽभिन्नावारकापनेतृत्वेन कुतो व्यञ्जकभेदः । आवारकभेदोऽपि वर्णदेशभेदनिबन्धनः । अन्यथा समानदेशानां यदेवैकस्यावारकं तदेवापरस्यापीत्यावारकभेदो न स्यात् । देशभेदोऽपि वर्णानामव्यापकत्वे सति स्यात् । व्यापकत्वे तु परस्परदेशपरिहारेण वर्णानामवस्थानाभावान्न देशभेदः । न चाव्यापकत्वं वर्णानामभ्युपगम्यते भवद्भिरिति न देशभेदः, तदभावान्नावारकभेदः, तदसत्त्वान्न व्यञ्जकभेद इति युगपत्सर्ववर्णश्रुतिरिति तदवस्थो दोषः। नाप्यावारकाणां वर्णपिधायकत्वेनावारकत्वं, किन्तु वर्णे दृश्यस्वभावखण्डनात् । व्यञ्जकानामपि न तदावारकापनेतृत्वेन व्यञ्जकत्वं, किन्तु वर्णे दृश्यस्वभावाधानादिति पूर्वोक्तदोषाभाव इति वक्तुं न शक्यम् । यत एवमभिधाने स्ववाचैव तस्य परिणामित्वमभिहितं स्यादित्यविप्रतिपत्तिप्रसङ्गः। तन्न वर्णसंस्कारोऽभिव्यक्तिरिति पक्षोयुक्तः ॥ नापि श्रोत्रसंस्कारोऽभिव्यक्तिरिति पक्षो युक्तः। तस्मिन्नपि पक्षे सकृत्संस्कृतं श्रोत्रं सर्ववर्णान् युगपत् शृणुयात् । नह्यञ्जनादिना संस्कृतं चक्षुः संनिहितं स्वविषयं किञ्चित् पश्यति, किञ्चिन्नेति दृष्टम् ॥अथ व्यञ्जकानां वायूनां भिन्नेषु कर्णमूलावयवेषु वर्तमानानां संस्काराधायकत्वेनार्थापत्त्या प्रतिनियतवर्णश्रवणान्यथाऽनुपपत्तिलक्षणया प्रतिनियतवर्णग्राहकत्वेन, संस्काराधायकवस्य प्रतीतेर्नैकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं सर्ववर्णान् युगपद् गृह्णातीति।तथाहि। वायवीयशब्दपक्षे यथा गकारादेर्निष्पत्त्यर्थ प्रयत्नप्रेरितो वायुर्नान्यं वर्णमुत्पादयति, तथाऽस्मत्पक्षेऽप्यन्यवर्णग्राहकश्रोत्रसंस्कारे समर्थो नान्यवर्णग्राहकश्रोत्रसंस्कारं विधास्यति । येषां तु ताल्वादिसंयोगविभागनिमित्तः शब्द इति पक्षः,