________________
तत्त्वबोधविधायिनी व्याख्या ।
मतवाय्वभिव्यक्तोऽपि सर्वदा स्वप्रतिभासिज्ञानम्, इति न सर्वदातजननस्वभावः। तत्स्वभावाभावे चोत्तरकालं तदेवानियत्वमिति व्यर्थमभिव्यक्तिकल्पनम् । अपि च । वर्णाभिव्यक्तिपक्षे कोष्ठयेन वायुना यावद्वेगमभिसर्पता यावान्वर्णविभागोऽपनीतावरणः कृतस्तावत एव श्रवणं स्यात्, न समस्तस्य वर्णस्येति खण्डशस्तस्य प्रतिपत्तिः स्यात् ॥अथ वर्णस्य निरवयवत्वादेकत्रोत्सारितावरणः सर्वत्रापनीतावरण इति नायं दोषः, तर्हि निर्विभागलादेवैकवानपनीतावरणः सर्वत्र तथेति मनागपि श्रवणं न स्यात् । सर्वत्र सर्वात्मना वर्णस्य परिसमाप्तत्वात्। सामस्त्येन श्रव. णाभ्युपगमे, वर्णस्याव्यापकत्वमनेकवं च दुर्निवारम् । यदि चैकत्राभिव्यक्तो निर्विभागलेन सर्वत्राभिव्यक्तः, तदा सर्वदेशावस्थितैस्तस्य श्रवणं स्यात् । यदप्युच्यते । यथैवोत्पद्यमानोऽयमुत्पत्तिवादिना पक्षे दिगादीनामविभागादविभक्तदिगादिसंबन्धिलेन स्वरूपेणासर्वगतोऽपि, सर्वान् प्रति भवन्नपि, न सर्वैरवगम्यते; किन्तु यच्छरीरसमीपवर्ती वर्ण उत्पन्नस्तेनैवासौ गृह्यते; तथाऽस्मत्पक्षेऽपि स्वतः सर्वगतो ऽपि वर्णो न सर्वैर्दूरस्थैरवगम्यते, किन्तु यच्छरीरसमीपस्थोऽभिव्यक्तस्तैरेवेति व्यञ्जकध्वनिसन्निधानासन्निधानकृतं वर्णस्य श्रवणमश्रवणं च युक्तम् ।
एतदेवाह
"यथैवोत्पद्यमानोऽयं न सर्वैरवगम्यते । दिग्देशाद्यविभागेन सर्वान् प्रति भवन्नपि ॥ १॥ तथैव यत्समीपस्थैर्नादैः स्यात् यस्य संस्कृतिः ।
तैरेव गृह्यते शब्दो न दूरस्थैः कथञ्चन"॥ २ ॥ इति । तदपि प्रलापमात्रम् । यतो यदि व्यञ्जका वायवो यत्रैव संनिहितास्तत्रैव वर्णसंस्कारं कुर्युस्तदा स्यादप्येतत्, किन्तु तथाभ्युपगमे वर्णस्य सावयवत्वम्; अनभिव्य. क्तस्वरूपादभिव्यक्तस्वरूपस्य च भेदात्, अनेकत्वं च स्यात् । सर्वात्मना तु संस्कारे
"यच्छरीरसमीपस्थैर्नादैः स्याद्यस्य संस्कृतिः। तैर्यथा श्रूयते शब्दस्तथा दूरगतैर्न किम्” ॥ १ ॥