________________
५८
सम्मतितर्द्धाख्यप्रकरणस्य
काया लूनपुनर्जातकेशनखादिष्विव तस्या भ्रान्तत्वात् । अथ दलितपुनरुदिते नखशिखरादौ प्रत्यभिज्ञाया बाधितत्वेन भ्रान्तत्वं, न पुनर्गादौ । ननु तत्र प्रत्यभिज्ञायाः किं बाधकम् | अन्तरालेऽदर्शनमिति चेत् । ननु गादावप्यन्तरालेऽदर्शनं समानम् । अथ दलितपुनरुदिते नखशिखरादावभावनिमित्तमन्तरालेऽदर्शनं न गादावभावनिमित्तम् । किं पुनरत्रादर्शननिमित्तमिति वक्तव्यम् । किमत्र वक्तव्यम्, अभिव्यक्तेरभावः । अथ केयमभिव्यक्तिर्यदभावादन्तराले गाद्यप्रतिपत्तिः । वर्णादिसंस्कारः । अथ कोऽयं वर्णादिसंस्कारः । आत्ममनः संयोगपूर्वकप्रयत्नप्रेरितेन कोष्ठेयन वायुना ताल्वादिसंयोगविभागवशात् प्रतिनियतवर्णाद्यभिव्यञ्जकत्वेन भेदमासादयता, वक्तृमुखसमीपगतैः स्पर्शनेन्द्रियप्रत्यक्षेण, तद्देशस्य च तूलादेः प्रेरणात्कार्यानुमानेन, देशान्तरे शब्दोपलब्ध्यन्यथाऽनुपपत्या च प्रतीयमानेन; नित्य सर्वगतस्य गकारादेर्वर्णस्य, श्रोत्रस्य, उभयस्य वा वारकाणां वायूनामपनयनं; यथाक्रमं वर्णसंस्कारः, श्रोत्रसंस्कारः, उभयसंस्कारश्चेति चेत् । ननु वर्ण संस्कारोऽभिव्यक्तिरित्यभ्युपगमे, आवारकवायुभिर्विज्ञानजननशक्तिप्रतिघाताद्वर्णोऽपान्तराले ज्ञानं न जनयतीति अभ्युपगन्तव्यम् । सा च शक्तिर्वर्णस्वरूपात् कथञ्चिदभिन्नाऽभ्युपगन्तव्या । एकान्तभेदे ततो वर्णादनुपकारे, तस्य शक्तिरिति संबन्धानुपपत्तेः । उपकारे वा तदुपकारिका अपरा शक्तिरभ्युपगन्तव्या; तस्या अपि ततो भेदेऽनवस्था । अभेदे प्रथमैव शक्तिः कथञ्चिदभिन्नाऽभ्युपगमनीया । एवं हि पारम्पर्यपरिश्रमः परिहृतो भवति । तथाभ्युपगमे च तच्छक्तिप्रतिघाते वर्णखरूपमेव तदभिन्नमावारकेण प्रतिहतं भवति । ततश्च कथं नानित्यत्वम् । व्यञ्जकेनापि शक्तिप्रतिबन्धापनयनंद्वारेण विज्ञानजनकशक्त्याविर्भावेन वर्णस्वरूपमेवाविर्भावितं भवतीति कथं न वर्णस्य व्यञ्जकजन्यत्वम् । व्यञ्जकावाप्तविज्ञानजननस्खरूपो वर्णो यदि तेनैव खरूपेणावतिष्ठते, तदा सर्वदा तदवभासिज्ञानप्रसङ्गः; सर्वदा तद्जननस्वभावस्य भावात् । सहकायेपेक्षा च नित्यस्य न भवतीति प्रतिपादयिष्यामः । अजनने वा न तत्स्वभावतेति प्रथममपि ज्ञानं न जनयेत् । यो हि यन्न जनयति न स तज्जननखभावः । यथा शालिबीजं यवाङ्कुरमजनयन्न तज्जननखभावम् । न जनयति च वर्णो व्यञ्जकाभि
·