________________
तत्त्वबोधविधायिनी व्याख्या । गादिषु विद्यते। गोशब्दत्वगत्वादीनां तु सत्त्वे का कथ।। शब्दत्वादीनां त्वभावः, वर्णान्तरग्रहणे वर्णान्तरानुसन्धानाभावात् । यत्र सामान्यमस्ति तत्रैकग्रहणेऽपरस्यानुसन्धानं दृष्टम् ; यथा शाबलेयग्रहणे बाहुलेयस्य ।वर्णान्तरे च गादौ गृह्यमाणे न कादीनामनुसन्धानम् ; तन्न तत्र शब्दत्वादिसंभवः । एतदयुक्तम् । यतः किमिदमनुसन्धानं भवतोऽभिप्रेतं यद् वर्णान्तरे गृह्यमाणे वर्णान्तरस्य नास्तीति प्रतिपाद्यते । यदि गादौ वर्णान्तरे गृह्यमाणे, अयमपि वर्ण इत्यनुसन्धानाभावः । तदयुक्तम् । एवंभूतानुसन्धानस्यानुभूयमानत्वेनाभावासिद्धेः ॥ अथ गादौ वर्णान्तरे गृह्यमाणे, अयमपि कादिरित्यनुसन्धानाभावान्न सामान्यसद्भावः; तदाऽत्य. ल्पमिदमुच्यते । शाबलेयादावपि व्यक्त्यन्तरे गृह्यमाणे, अयमपि बाहुलेय इत्यनुसन्धानाभावात् गोत्वस्याप्यभावः प्रसक्तः ॥ अथ तत्र गौ¥रित्यनुगता. कारप्रत्ययस्याबाधितस्य सद्भावात् न गोत्वासत्त्वम् । एतद् गादिष्वपि समानम् । तत्रापि वर्णो वर्ण इत्यनुगताकारस्याबाधितस्य प्रत्ययस्य सद्भावात् ; कथं न वर्णेषु वर्णत्वस्य, गादिषु गत्वादेः, शब्दे शब्दत्वस्य संभवः । निमित्तस्य समानत्वात् । तथाहि । समानासमानरूपासु व्यक्तिषु कचित्समाना इति प्रत्ययोऽन्वेति, अन्यत्र व्यावर्त्तते । यत्र च प्रत्ययानुवृत्तिस्तत्र सामान्यव्यवस्था, नान्यत्र । सा च प्रत्ययानुवृत्तिर्गादिष्वपि समाना इति कथं न तत्र सामान्यव्यवस्था । यदि पुनर्गादिष्वनुगताकारप्रत्ययसत्त्वेऽपि न गत्वादिसामान्यमभ्युपगम्यते, तर्हि शाबलेयादिष्वपि न गोत्वसामान्यमभ्युपगमनीयम् । नहि तत्रापि तथाभूतप्रत्ययानुवृत्तिमन्तरेण सामान्याभ्युपगमेऽन्यत् निमित्तमुत्पश्यामः। अक्षजन्यत्वमबाधितत्वादि च प्रत्ययस्योभयत्रापि विशेषः समानः । यदि चानुगताबाधिताक्षजप्रत्ययविशेषविषयत्वे सत्यपि गत्वादेरभावः; गादेरपि व्यावृत्ततथाभूतप्रत्ययविषयस्याभावः स्यात् । ततश्च कस्य दर्शनस्य परार्थत्वान्नित्यवं साध्येत ॥ अथ गादौ श्रोत्रग्राह्यत्वनिमित्तोऽनुगतः प्रत्ययो न सामान्यनिमित्तः। तदप्ययुक्तम् । श्रोत्रग्राह्यत्वस्यातीन्द्रियत्वेनानवगमे निमित्ताग्रहणे, तद्ग्रहणनिमित्तानुगतप्रत्ययस्य गादावभावप्रसङ्गात् । न च प्रत्यभिज्ञया गादीनामेकत्वसिद्धर्भेदनिबन्धनस्य तेषु गत्वादिसामान्यस्याभाव इति युक्तमभिधानम् । गाधेकत्वग्राहि