________________
सम्मतिताख्यप्रकरणस्यभवत्परिकल्पनया, तद्वाचकशून्यात्तत्प्रतिभासादर्थप्रतिपत्तिः स्यात् । अतोऽर्थप्रतिभासाभावप्रसङ्गात् नानित्यत्वं शब्दस्य ॥ ___अत्र प्रतिविधीयते ॥ यदुक्तम् । दर्शनस्य परार्थत्वान्नित्यः शब्दोऽनित्यत्वे पुनः पुनरुच्चारणासंभवात् न समयग्रहः; तदभावे शब्दादर्थप्रतिपत्तिर्न स्यात्, इति परार्थशब्दोच्चारणान्यथाऽनुपपत्तेर्नित्यः शब्दः । तदयुक्तम् । अनित्यस्यापि धूमादेरिवावगतसंबन्धस्यार्थप्रत्यायकत्वसंभवात् शब्दस्य । नहि धूमादीनामप्ये. कैव व्यक्तिरग्न्यादिप्रतिपादिका, किन्त्वन्यैव । नचानाश्रितसमानपरिणतीनां सर्वधूमादिव्यक्तीनामर्वाग्दृशा स्वसाध्येन संबन्धः शक्यो ग्रहीतुम् । असाधारणरूपेण सर्वधूमादिव्यक्तीनामदर्शनात् । न च लिङ्गानुमेयसामान्ययोस्तत्र संबन्धग्रहणम् । शब्देऽप्यस्य न्यायस्य समानत्वात् । नच धूमत्वात् मया प्रतिपन्नोऽग्निरिति प्रतिपत्तिः, किन्तु धूमादिति । सा च लिङ्गानुमेययोः सामान्यविशिष्टव्यक्तिमात्रयोः संबन्धग्रहणे सति, सामान्यविशिष्टाग्निव्यक्त्यवगमे युक्ता । नच धूमसामान्यादग्निसामान्यस्य, यथा च सामान्यविशिष्टस्य विशेषस्य, अनुमेयत्वं, वाच्यत्वं वाऽभ्युपगमनीयम् । अन्यथा सामान्यमात्रस्य दाहाद्यर्थक्रियाऽजनकले, ज्ञानाद्यर्थक्रियायाश्च सामान्यसाध्यायास्तदैव समुद्भूतेहार्थिनामनुमेयवाच्यप्रतिभासात्प्रवृत्त्यभावेन, लिङ्गिवाच्यप्रतिभासयोरप्रामाण्यप्रसङ्गः । तथा धूमशब्दयोस्तद्विशिष्टयोः तत्त्वमभ्युपगन्तव्यम्; न्यायस्य समानत्वात्॥ नचानुमेयत्ववाच्यत्वसामान्य व्यक्तिव्यतिरेकेणानुपपद्यमानं तां लक्षयतीति लक्षणया प्रवृत्तिर्भविष्यतीति वक्तुं शक्यम् । क्रमप्रतीतेरभावात् । नहि लिङ्गवाचकजनितलिङ्गिवाच्यप्रतिभासे, प्राक् सामान्यप्रतिभासः, पश्चाद्यक्तिप्रतिभास इति क्रमप्रतीत्यनुभवः । न च लक्षणा संभवतीति प्रपञ्चतः प्रतिपादयिष्याम इत्यास्तां तावत् ॥ एवं सामान्यविशिष्टधूमादिलिङ्गस्य गमकत्ववद्गत्वादिविशिष्टगा-- दिवाचकत्वे, न किञ्चिन्नित्यत्वेन ।तदभावेऽपि धूमादिभ्य इवार्थप्रतिपत्तिसंभवात् । अथ धूमादौ सामान्यस्य संभवात् पूर्वोक्तेन न्यायेन गमकत्वमस्तु; शब्दे तु न किंचित्सामान्यमस्ति, यद्विशिष्टस्य शब्दस्य वाचकभावः । शब्दत्वमिति चेत् । न। गोशब्दस्य शब्दत्वविशिष्टस्य, स्ववाच्ये न संबन्धग्रहः । नच शब्दत्वमपि