________________
५५
तत्त्वबोधविधायिनी व्याख्या । न्धोऽर्थप्रतिपादकः शब्दो नित्यः। तदुक्तम्। “दर्शनस्य परार्थत्वान्नित्यः शब्दः" इति ॥ अथ मतम् ; भूयो भूय उच्चार्यमाणः शब्दः सादृश्यादेकत्वेन निश्चीयमानोऽर्थप्रतिपत्तिं विदधाति, न पुनर्नित्यत्वात् ; तन्न किंचिन्नित्यत्वपरिकल्पनेन प्रमाणबाधितेन । तदयुक्तम् । सादृश्येन शब्दादर्थाप्रतिपत्तेः । नहि सदृशतया शब्दः प्रतीयमानो वाचकत्वेनाध्यवसीयते, किन्त्वेकत्वेन । तथाह्येवं प्रतिपत्तिः । य एव संबन्धग्रहणसमये मया प्रतिपन्नः शब्दः स एवायमिति ॥ किंच । सादृश्यादर्थप्रतिपत्तौ भ्रान्तः शब्दादर्थप्रत्ययः स्यात् । नान्यस्मिन् गृहीतसङ्केतेऽन्यस्मादर्थप्रत्ययोऽभ्रान्तः। यथा गोशब्दे गृहीतसंबन्धेऽश्वशब्दाद्गवार्थप्रत्ययः ॥ न च भूयोऽवयवसामान्ययोगस्वरूपं सादृश्यं शब्दे संभवति । विशिष्टवर्णात्मकत्वाच्छब्दस्य; वर्णानां च निरवयवत्वात् ॥ नच समानस्थानकरणजन्यत्वलक्षणं सादृश्यं प्रतिपत्तुं शक्यम् । परकीयस्थानकरणादेरतीन्द्रियत्वेन तजन्यस्याप्यप्रातिपत्तेः ॥ नच गत्वादिविशिष्टानां गादीनां वाचकलमभ्युपगन्तुं युक्तम् । गत्वादिसामान्यस्याभावात् । तदभावश्च, गादीनां नानात्वायोगात् । तदयोगश्च, प्रत्यभिज्ञया गादीनामेकवनिश्चयात्। अत एव न सामान्यनिबन्धना गादिषु प्रत्यभिज्ञा ।भेदनिबन्धनस्य सामान्यस्यैव गादिष्वभावात् , कुतस्तन्निबन्धना गादिषु प्रत्यभिज्ञा । किंच । किं गलादीनां वाचकत्वम् , उत गादिव्यक्तीनाम् । न तावद्गत्वादीनाम् । नित्यत्वेनास्मदभ्युपगमाश्रयणप्रसङ्गात् । नापि गादीनां वाचकत्वम् । विकल्पानुपपत्तेः । तथाहि । किं गत्वादिविशिष्ट व्यक्तिमात्रं वाचकम्, उत गादिव्यक्तिविशेषः । तत्र न तावत् गादिव्यक्तिविशेषः । सामान्ययुक्तस्यापि तस्यानन्वयात्। अनन्विताच्च नार्थप्रतिभासः । नापि गादिव्यक्तिमात्रम् । यतस्तदपि व्यक्तिमात्रं किं सामान्यान्तर्भूतम्, उत व्यक्त्यन्तभूतमिति कल्पनाद्वयम् । यदि सामान्यान्तःपाति, तदा पुनरपि नित्यस्य वाचकत्वमित्यस्मत्पक्षप्रवेशः । अथ व्यक्त्यन्तर्भूतमिति पक्षः, तदाऽनन्वयदोषस्तदवस्थित इति । किंच। यद्यनित्यः शब्दः, तदाऽऽलम्बनरहिताच्छब्दप्रतिभासमात्रादर्थप्रतिपचित्यपग्रता स्यात् । तथाहि । शब्दश्रवणं, ततः सङ्केतकालानुभूतस्मरमावता तत्संदेशत्वेनाध्यवासयः । नचैतावन्तं कालं शब्दस्यावस्थानं