________________
५४
सम्मतितकाव्यप्रकरणस्यस्तत्र पुरुषाभावो निश्चितः । अन्यतः प्रमाणादिति चेत् । तदेवोच्यताम् , किम
पित्त्या । अर्थापत्तितश्चेत्।न।इतरेतराश्रयदोषप्रसङ्गात्। तथाहि । अर्थापत्तितः पुरुषाभावसिद्धावप्रामाण्यासिद्धिरेतत्सिद्धौ चार्थापत्तितः पुरुषाभावसिद्धिरितीतरेतराश्रयत्वं, चक्रकचोचं चात्रापि । तथाहि । यद्यप्रामाण्याभावलक्षणो धर्मो ऽनुपपद्यमानो वेदेऽपौरुषेयत्वं कल्पयति, आगमान्तरेऽप्यसौ धर्मस्तत्किं न कल्पयति । तत्र पुरुषदोषसम्भवादसौ धर्मो मिथ्या; तेन तत्र तन्न कल्पयति। वेदे कुतः पुरुषाभावः । अर्थापत्तेश्चैतदागमान्तरे समानमित्यादि तदेवावर्त्तत इति चक्रकानुपरमः ॥ नाप्यतीन्द्रियार्थप्रतिपादनलक्षणो धर्मोऽनुपपद्यमानो वेदे पुरुषाभावं कल्पयति। आगमान्तरेऽपि समानत्वात् ॥न चाप्रामाण्याभावे पुरुषाभावः सिद्ध्यति । कार्याभावस्य कारणाभावं प्रति व्यभिचारित्वेनान्यथानुपपन्नत्वासम्भवात् । अप्रतिबद्धासमर्थस्य पुरुषस्याभावसिद्धावपि, न सर्वथा पुरुषाभावसिद्धिः । पुरुषमात्रस्यापि निराकरणादिष्टसिद्धिश्च। अप्रामाण्यकरणस्य तत्कर्तृत्वे. नास्माकमप्यनिष्टत्वात् ॥ नापि प्रामाण्यधर्मोऽन्यथाऽनुपपद्यमानो वेदे पुरुषाभावं साधयति। आगमान्तरेऽपि तुल्यत्वात् ॥ शेषमत्र चिन्तितमिति न पुनरुच्यते ॥
___ परार्थवाक्योच्चारणान्यथाऽनुपपत्तेस्तत्प्रतिपत्तिरिति चेत् । अयमर्थः। स्वार्थेनावगतसंबन्धः शब्दः स्वार्थ प्रतिपादयति । अन्यथाऽगृहीतसंकेतस्यापि पुंसः ततो वाच्यार्थप्रतिपत्तिः स्यात् । सच संबन्धावगमः प्रमाणत्रयसंपाद्यः। तथाहि । यदैको वृद्धोऽन्यस्मै प्रतिपन्नसङ्गतये प्रतिपादयति-'देवदत्त!गामभ्याजैनां शुक्लां दण्डेन' इति, तदा पार्श्वस्थितोऽव्युत्पन्नसङ्केतः शब्दार्थौ प्रत्यक्षतः प्रतिपद्यते,श्रोतुश्च तद्विषयक्षेपणादिचेष्टादर्शनात् अनुमानतो गवादिविषयां प्रतिपत्तिमवगच्छति; तत्प्रतीत्यन्यथाऽनुपपत्त्या शब्दस्य च तत्र वाचिकां शक्तिं स एव परिकल्पयति । स च प्रमाणत्रयसंपाद्योऽपि सङ्गत्यवगमो न सकृद्वाक्यप्रयोगात्संभवति । वाक्यासंमुग्धार्थप्रतिपत्ताववयवशक्तेरावापोहापाभ्यां निश्चयात्॥नचास्थिरस्य पुनः पुनरुच्चारणं संभवति, तदभावे नान्वयव्यतिरेकाभ्यां वाचकशक्यवगमः, तदसत्त्वात् न प्रेक्षावद्भिः परावबोधाय वाक्यमुच्चार्यम् ; उच्चार्यते च परावबोधाय वाक्यम् ; अतः परार्थवाक्योच्चारणान्यथानुपपत्त्या निश्चीयते धूमादिरिव गृहीतसंब