________________
तत्त्वबोधविधायिनी व्याख्या । सन्निवेशादि बुद्धिमत्कारणपूर्वकत्वेन व्याप्तमुपलब्धं; तथाभूतानामेव जीर्णकूपप्रासादादीनां तद् बुद्धिमत्कारणत्वप्रयोजकत्वानन्यथाभूतानाम् । यदि पुनरन्यथाभूतस्याप्यतीतस्यानागतस्य कालस्य तद्रहितत्वं साधयेत्कालत्वम् ; तदाऽन्यथाभूतानामपि भूधरादीनां सन्निवेशादि बुद्धिमत्कारणपूर्वकत्वं साधयेत् ; न तस्य सर्वजगज्ज्ञातुः कर्तुश्चेश्वरस्य सिद्धेश्वान्यथाभूतकालभावसिद्धिरितीव अपौरुषेयत्वसाधनं च वेदानामनवसरम् ॥ अथ तथाभूतस्यैवातीतस्यानागतस्य वा कालस्य तद्रहितत्वं साध्यते । नच सिद्धसाध्यता। अन्यथाभूतस्य कालस्याभावात् । न । अन्यथाभूतः कालो नास्तीति कुतः प्रमाणादवगतम् । यद्यन्यतः, तत एवापौरुषेयत्वसिद्धिः, किमनेन । अतोऽनुमानाच्चेत् । न । अन्यथाभूतकालाभावात् ; अतोऽनुमानात्तद्रहितत्वसिद्धिस्तत्सिद्धेस्तत्सिद्धिरितीतरेतराश्रयदोषप्रसङ्गात् ॥ तदेवमन्यथाभूतकालस्याभावासिद्धेस्तथाभूतस्य तद्रहितत्वसाधने सिद्धसाधनमिति ॥ नापि शब्दात्तत्सिद्धिः । इतरेतराश्रयदोषप्र. सङ्गः । तदेवमन्यथा कथं वेदवचनमस्ति ॥ नापि विधिवाक्यादपरस्य भवद्भिः प्रामाण्यमभ्युपगम्यते । अभ्युपगमे वा पौरुषेयत्वमेव स्यात् । तथाहि । तत्प्रतिपादकानि वेदवचांसि श्रूयन्ते । “हिरण्यगर्भः समवर्त्तताग्रे तस्यैव चैतानि निःश्वसितानि याज्ञवल्क्य इतीहोवाच” इत्यादीनि । तन्न शब्दादपि तत्सिद्धिः ॥ नाप्युपमानात् सिद्धिः। यदि हि चोदनासदृशं वाक्यमपौरुषेयत्वेन किंचित् सिद्धं स्यात्, तदा तत्सादृश्योपमानेन वेदस्यापौरुषेयत्वमुपमानात् सिद्धं स्यात् । नच तत्सिद्धमित्युपमानादपि न तत्सिद्विः॥ नाप्यर्थापत्तेः । अपौरुषेयत्वव्यतिरेकेणानुपपद्यमानस्य सिद्धवेदे कस्यचिद्धर्मस्याभावात् ॥ नाप्रामाण्याभावलक्षणो धर्मोऽनुपपद्यमानो वेदस्यापौरुषेयत्वं परिकल्पयति । आगमान्तरेऽपि तस्य धर्मस्य भावादपौरुषेयत्वं स्यात् ॥ नचासौ तत्र मिथ्या । वेदेऽपि तन्मिथ्यात्वप्रसङ्गात् ॥ अथागमान्तरे पुरुषस्य कर्तुरभ्युपगमात् पुरुषाणां च सर्वेषामपि आगमादिषु रक्तत्वात् , तद्वेषजनितस्याप्रामाण्यस्य तत्र संभवात, नाप्रामाण्याभावलक्षणो धर्मस्तत्र सत्यः । वेदे त्वप्रामाण्यजनकदोषास्पदस्य पुरुषस्य कर्तुरभावादप्रामाण्याभावलक्षणो धर्मः सत्यः ॥ कुतः पुन