________________
५२
सम्मतितर्द्धाख्यप्रकरणस्य
सर्वस्याभावज्ञानाभावात् ॥ असिद्धश्च सर्वस्याभावज्ञानाभावः । तन्नात्मा प्रमाणपञ्चकविनिर्मुक्तो अभावज्ञानजनकः ॥ अथ वेदानादिसत्त्वमभावज्ञानोत्थापकम् । नन्वत्रापि वक्तव्यम् । ज्ञातमज्ञातं वा तत्तदुत्थापकम् । न ज्ञातम् । तज्ज्ञानासम्भवात् । प्रत्यक्षादेः तज्ज्ञापकत्वेनाप्रवृत्तेः ॥ प्रवृत्तौ वा तत एव पुरुषाभावसिद्धेरभावप्रमाणवैयर्थ्यम् । अनादिसत्त्वसिद्धेः पुरुषाभावज्ञाननान्तरीयकत्वात् ॥ नाप्यज्ञातं तत् तदुत्थापकम् । अगृहीतसमयस्यापि तत्र तदुत्पत्तिप्रसङ्गात् ; केनचित्प्रत्यासत्तिविप्रकर्षाभावात् ॥ तन्नानादिसत्त्वमपि तदुत्थापकमिति नाभावप्रमाणात्पुरुषाभावसिद्धिः ॥ नचाभावप्रमाणस्य प्रामाण्यम् । प्राक्प्रतिषिद्धत्वात् ; प्रतिषेत्स्यमानत्वाच्च ॥ अथ पर्युदासरूपमपौरुषेयत्वम् । किं तत्पौरुषेयत्वादन्यत्सत्त्वम् । तस्यास्माभिरप्यभ्युपगमात् ॥ न, अनादिसत्त्वम् । तद्दाहकप्रमाणाभावात् । तथाहि । न तावत् तग्राहकं प्रत्यक्षम् | अक्षानुसारितया तथाव्यपदेशात् । अक्षाणां च अनादिकालसङ्गत्यभावेन तत्सम्बद्धतत्सत्वेनाप्यसंबन्धात्, न तत्पूर्वकप्रत्यक्षस्य तथाप्रवृत्तिः ॥ प्रवृत्तौ वा तद्वदनागतकालसम्बद्धधर्मस्वरूपग्राहकत्वेनापि प्रवृत्तेः, न धर्मज्ञनिषेधः । तथा 'सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तम्, विद्यमानोपलम्भनत्वात्' इति सूत्रम् ;
"भविष्यति न दृष्टं च, प्रत्यक्षस्य मनागपि ॥ सामर्थ्यम् – ” ॥
इति च वार्त्तिकं व्याहतं स्यादिति न प्रत्यक्षात् तत्सिद्धिः ॥ नाप्यनुमानात् । तस्याभावात् ॥ अथ
“ अतीतानागतौ कालौ वेदकारविवर्जितौ ॥
कालत्वात्; तद्यथा, कालो वर्त्तमानः समीक्ष्यते " ॥१॥ इत्यतोऽनुमानात्तत्सिद्धिः । न । अस्य हेतोरागमान्तरेऽपि समानत्वात् ॥ किंच । किं यथाभूतो वेदकरणासमर्थपुरुषयुक्त इदानीं तत्कर्तृपुरुषरहितः कालउपलब्धः, अतीतोऽनागतो वा तथाभूतः कालत्वात् साध्यते; उत अन्यथाभूतः । यदि तथाभूतः, तदा सिद्धसाध्यता । अथान्यथाभूतः; तदा सन्नि वेशादिवदप्रयोजको हेतुः । तथाहि । यथाभूतानामभिनव कूपप्रासादादीनां