________________
तत्त्वबोधविधायिनी व्याख्या ।
न । समयानभिज्ञस्यापि तज्जनकत्वप्रसङ्गात् । नचाज्ञातः प्रमाणपञ्चकाभावोऽ· भावज्ञाने जनकः । कृतयत्नस्यैव प्रमाणपञ्चकाभावोऽभावज्ञापक इत्यभिधानात् ॥ नच इन्द्रियादेखि अज्ञातस्यापि प्रमाणपञ्चकाभावस्याभावज्ञानजनकत्वम् । अभावस्य सर्वशक्तिरहितस्य जनकत्वविरोधात् ॥ अविरोधे च भावेऽप्यभाव इति नाम कृतं स्यात् ॥ न तुच्छात्तदभावात्तदभावज्ञानं, किन्तु प्रमाणपञ्चकरहितादात्मन इति चेत् । न । आगमान्तरेऽपि तथाभूतस्यात्मनः सम्भवात्, अभावज्ञानोत्पत्तिः स्यात् ॥ प्रमेयाभावोऽपि तद्धेतुः; तदभावान्नागमान्तरेऽभावज्ञानमिति चेत् । न । अभावाभावः प्रमेयसद्भावः, तस्य प्रत्यक्षाद्यन्यतमप्रमाणेनानिश्चये, कथमभावाभावप्रतिपत्तिः ॥ अभावज्ञानाभावात्तत्प्रतिपत्तिः, न सदुपलम्भकप्रमाणसद्भावादिति चेत् । न । अभावज्ञानस्य प्रमेयाभावकार्यत्वात्, तदभावान्नाभावाभावावगतिः । कार्याभावस्य कारणाभावव्यभिचारात् । अप्रतिबद्धसामर्थ्यस्याभावप्रतीतावपि नेष्टसिद्धिः । क्वचित्प्रदेशे घटाभावप्रतिपतिस्तु न घटज्ञानाभावात् किन्त्वेकज्ञानसंसर्गिपदार्थान्तरोपलम्भात् ॥ न च पुरुषाभावाभावप्रतिपत्तावयं न्यायः । तदेकज्ञानसंसर्गिणः कस्यचिदप्यभावात् ॥ न, पुरुष एव तदेकज्ञानसंसर्गी । पुरुषभावाभावयोर्विरोधेनैकज्ञानसंसर्गित्वासम्भवात् ॥ सम्भवेऽपि न पुरुषोपलम्भभावात् तदभावाभावप्रतिपत्तिः । तदुपलम्भस्यैव तत्प्रतिपत्तिरूपत्वात् । अतएव विरुद्धविधिरप्यत्र न प्रवर्त्तत इति ॥ किंच। कस्याभावज्ञानाभावात् प्रमेयाभावाभावः वादिनः, प्रतिवादिनः, सर्वस्य वा । यदि वादिनोऽभावज्ञानाभावान्नागमान्तरे प्रमेयाभावः । वेदेऽपि माभूत् । तत्रापि प्रतिवादिनोऽभावज्ञानाभावस्याविशेषात् ॥ अथागमान्तरे वादिप्रतिवादिनोरुभयोरप्यभावज्ञानाभावान्न प्रमेयाभावः वेदे तु प्रतिवादिनोऽभावज्ञानाभावेऽपि, वादिनोऽभावज्ञानसद्भावात् । न । वादिनो यदभावज्ञानं तत्साङ्केतिकं, नाभावबलोत्पन्नम्; आगमान्तरे प्रतिवादिनः अप्रामाण्याभावज्ञानवत्। न च साङ्केतिकादभावज्ञानादभावसिद्धिः । अन्यथाऽऽगमान्तरेऽपि ततोऽप्रामाण्याभावसिद्धिप्रसङ्गः । तन्नागमान्तरे वादिनोऽभावज्ञानाभावाद् गतिः ॥ नापि प्रतिवादिनोऽभावज्ञानाभावात्तत्र तद्गतिः । वेदेऽपि तत्प्रसङ्गात् ॥ अत एव न
५१