________________
सम्मतिताख्यप्रकरणस्यअथापि स्यात् ; यदि प्रामाण्यापवादकदोषाभावो गुणनिमित्त एव भवेत् , तदा स्यादेतत्प्रसङ्गसाधनम् ; यावताऽपौरुषेयत्वेनापि तस्य सम्भवात्कथं प्रसङ्गसाधनस्यावकाशः । असदेतत् । अपौरुषेयत्वस्यासिद्धत्वात् । तथाहि । किमपौरुषेयत्वं शासनस्य, प्रसज्यप्रतिषेधरूपमभ्युपगम्यते, उत पर्युदासरूपम् । तत्र यदि प्रसज्यरूपं; तदा किं सदुपलम्भकप्रमाणग्राह्यम्, उत अभावप्रमाणवेधम् । यदि सदुपलम्भकप्रमाणग्राह्यम् । तद्युक्तम् । सदुपलम्भकप्रमाणविषयस्याभावत्वानुपपत्तेः । अभावत्वे वा न तद्विषयत्वम् । तस्य तद्विषयत्वविरोधात्, अनभ्युपगमाञ्च॥अभावप्रमाणग्राह्यत्वाभ्युपगमेऽपि वक्तव्यम् । किमभावप्रमाणं ज्ञानविनिर्मुक्तात्मलक्षणम्, उत अन्यज्ञानस्वरूपम् । प्रथमपक्षेऽपि किं सर्वथा ज्ञानविनिर्मुक्तात्मस्वरूपम्, आहोस्वित् निषेध्यविषयप्रमाणपञ्चकविनिमुक्तात्मलक्षणमिति । प्रथमपक्षे, नाभावपरिच्छेदकत्वम् । परिच्छेदस्य ज्ञानधर्मत्वात् ; सर्वथा ज्ञानविनिर्मुक्तात्मनि च तदभावात् ॥ निषेध्यविषयप्रमाणपञ्चकविनिर्मुक्तात्मनोऽपि नाभावव्यवस्थापकत्वम् । आगमान्तरेऽपि तस्य सद्भावेन व्यभिचारात् ॥ तदन्यज्ञानमपि यदि तदन्यसत्ताविषयं स्यान्नाभावप्रमाणं स्यात् । तस्य सहिषयत्वविरोधात् ॥ पौरुषेयत्वादन्यस्तदभावः, तद्विषयज्ञानं तदन्यज्ञानम्, अभावप्रमाणमिति चेत् । अत्रापि वक्तव्यम् । किमस्योत्थापकम् । प्रमाणपञ्चकाभावश्चेत् । नन्वत्रापि वक्तव्यम् । किमात्मसंबन्धी, सर्वसंबन्धी वा प्रमाणपञ्चकाभावस्तदुत्थापकः । न सर्वसंबन्धी । तस्यासिद्धत्वात् । नात्मसंबन्धी । तस्यागमान्तरेऽपि सद्भावेन व्यभिचारित्वात् ॥ आगमान्तरे परेण पुरुषसद्भावाभ्युपगमात् प्रमाणपञ्चकाभावो नाभावप्रमाणसमुत्थापक इति चेत् । न । पराभ्युपगमस्य भवतोऽप्रमाणत्वात् ॥ प्रमाणत्वे वा वेदेऽपि नाभावप्रमाणप्रवृत्तिः । परेण तत्रापि कर्तृपुरुषसद्भावाभ्युपगमात् ॥ प्रवृत्तौ चागमान्तरेऽपि स्यात्। अविशेषात् ॥ नच वेदे पुरुषाभ्युपगमः परस्य मिथ्या । अन्यत्रापि तन्मिथ्यात्वप्रसक्तेः ॥ किंच । प्रमाणपञ्चकाभावः किं ज्ञातोऽभावप्रमाणजनका, उताज्ञातः। यदि ज्ञातः, तदा न तस्यापरप्रमाणपञ्चकाभावाद् ज्ञप्तिः। अनवस्थाप्रसङ्गात् ॥ नापि प्रमेयाभावात् । इतरेतराश्रयदोषात् ॥ अथाज्ञातस्तजनकः ।