________________
स
तत्त्वबोधविधायिनी व्याख्या । तथाहि । बाधकप्रत्यय एवं प्रवर्त्तते । न इदं रजतम्, न पुना रजतप्रतिभासः प्रकृतः स्मृतिरिति ॥ तन्न स्मृतिप्रमोषरूपता भ्रान्तदृशामभ्युपगन्तुं युक्ता । अतो नायमपि सत्पक्षः ॥ तन्नार्थसंवेदनखरूपमप्यपरोक्षं सामान्यतो दृष्टं लिङ्गं प्राभाकरैरभ्युपगम्यमानं, ज्ञातृव्यापारलक्षणप्रमाणानुमापकमिति, मीमांसकमते प्रमाणस्यैवासिद्धत्वात्कथं यथावस्थितार्थपरिच्छेदशक्तिखभावस्य प्रामाण्यस्य स्वतः सिद्धिः । नहि धर्मिणोऽसिद्धौ तद्धर्मस्य सिद्धिर्युक्ता; अतो न सर्वत्र स्वतः प्रामाण्यसिद्धिरिति स्थितम् ॥
शब्दसमुत्थस्य तु अभिधेयविषयज्ञानस्य यदि प्रामाण्यमभ्युपगम्यते, तदा अपौरुषेयत्वस्यासम्भवाद् गुणवत्पुरुषप्रणीतस्तदुत्पादकः शब्दोऽभ्युपगन्तव्यः । अथ तत्प्रणीतत्वं नाभ्युपगम्यते, तदा तत्समुत्थज्ञानस्य प्रामाण्यमपि न स्यादित्यभिप्रायवानाचार्यः प्राह
"जिनानाम्" । रागद्वेषमोहलक्षणान् शत्रून् जितवन्त इति जिनास्तेषाम्, " शासनं" तदभ्युपगन्तव्यमिति प्रसङ्गसाधनम् ।
नचात्रेदं प्रेर्यम् ॥ यदि जिनशासनं जिनप्रणीतत्वेन सिद्धं निश्चितप्रामाण्यमभ्युपगमनीयम्, अन्यथा प्रामाण्यस्याप्यनभ्युपगमनीयत्वादिति प्रसङ्गसाधनमत्र प्रतिपाद्यत्वेनाभिप्रेतं; तत्किमिति बौद्धयुक्त्याऽऽर्हतेन त्वया स्वतः प्रामाण्यनिरासोऽभिहितः॥ यतः सर्वसमयसमूहात्मकत्वमेवाचार्येण प्रतिपादयितुमभिप्रेतम् । यद्वक्ष्यत्यस्यैव प्रकरणस्य परिसमाप्तौ । यथा
"भई मिच्छादसणसमूहमइयस्स अमयसारस्स ।
जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स"॥१॥ इत्यादि । अयमेवार्थो बौद्धयुक्त्युपन्यासेन समर्थितः । अन्यत्राप्यन्यमतोपक्षेपेणान्यमतनिरासेऽयमेवाभिप्रायो द्रष्टव्यः । सर्वनयानां परस्परसापेक्षाणां सम्यग्मतत्वेन विपरीतानां विपर्ययत्वेनाचार्यस्येष्टत्वात् ॥
अत एवोक्तमनेनैव द्वात्रिंशिकायाम्:"उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । नच तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः" ॥१॥