________________
सम्मतिताख्यप्रकरणस्यगम्यते। तद्रजतमित्यत्र संवेदनस्यापरोक्षत्वाभ्युपगमेऽपि, प्रतिभासाभावः प्रसक्तः। किंच । स्मृतिप्रमोषः पूर्वोक्तदोषद्वयभयादभ्युपगतः; तच्च तदभ्युपगमेऽपि समानम् । तथाहि । सम्यग्रजतप्रतिभासेऽपि आशङ्कोत्पद्यते । किमेष स्मृतावपि स्मृतिप्रमोषः, उत सम्यगनुभव इति सापेक्षवात् बाधकान्वेषणे परतःप्रामाण्यम् । तत्र च भवन्मतेनानवस्था प्रदर्शितैव । यत्र हि स्मृतिप्रमोषस्तत्रोत्तरकालभावी बाधकप्रत्ययो, यत्र तु तदभावः तत्र स्मृतिप्रमोषासम्भव इति कथं न बाधकाभावापेक्षायां परतःप्रामाण्यदोषभयस्यावकाशः । शून्यवाददोषभयमपि स्मृतिप्रमोषाभ्युपगमेऽवश्यंभावि । तथाहि । ध्वस्तश्रीहर्षाद्याकारोऽनुत्पन्नशङ्खचक्रवाद्याकारश्च ज्ञाने यः प्रतिभाति, सोऽवश्यं ज्ञानरचितोऽसत्प्रतिभाति । रजतादिस्मृतेरप्यसन्निहितरजताकारप्रतिभासखभावत्वात् तत्सत्त्वं तदुत्पत्तावसन्निहितं नोपयुज्यत इति असदर्थविषयत्वे ज्ञानस्य, कथं शून्यवादभयाद्भवतः स्मृतिप्रमोषवादिनो मुक्तिः; तन्न स्मृतिप्रमोषः ॥ कश्चायं स्मृतिप्रमोषः। किं स्मृतेरभावः, उतान्यावभासः, आहोस्वित् अन्याकारवेदित्वमिति विकल्पाः । तत्र नासौ स्मृतेरभावः । प्रतिभासाभावप्रसङ्गात् । अथान्यावभासोऽसौ । तदाऽत्रापि वक्तव्यम् । किं तत्कालोऽन्यावभासोऽसौ, अथोत्तरकालभावी । यदि तत्कालभावी अन्यावभासः स्मृतेः प्रमोषः, तदा घटादिज्ञानं तत्कालभावि तस्याः प्रमोषः स्यात् । अथोत्तरकालभाव्यसौ तस्याः प्रमोषः । तदप्ययुक्तम् । अतिप्रसङ्गात् । यदि नामोत्तरकालमन्यावभासः समुत्पन्नः पूर्वज्ञानस्य स्मृतिप्रमोषत्वेनाभ्युपगतस्य, तत्त्वे किमायातम् । अन्यथा सर्वस्य पूर्वज्ञानस्य स्मृतिप्रमोषत्वप्रसङ्गः । अथान्याकारवेदित् तस्या असौ; तदा विपरीतख्यातिः स्यात्, न स्मृतिप्रमोषः । कश्चासौ विपरीत आकारस्तस्याः । यदि स्फुटार्थावभासिलं; तदसौ प्रत्यक्षस्याकारः, कथं स्मृतिसम्बन्धी । तत्सम्बन्धिवे वा तस्याः प्रत्यक्षरूपतैव स्यात् , न स्मृतिरूपता । अत एव शुक्तिकायां रजतप्रतिभासस्य न स्मृतिरूपता तत्प्रतिभासेन व्यवस्थाप्यते । तस्य प्रत्यक्षरूपतया प्रतिभासनात् । नापि बाधकप्रत्ययेन तस्याः स्मृतिरूपता व्यवस्थाप्यते । यतो बाधकप्रत्ययः तत्प्रतिभातस्यार्थस्यासद्रूपत्वमावेदयति, न पुनः तज्ज्ञानस्य स्मृतिरूपताम् ।