________________
तत्त्वबोधविधायिनी व्याख्या। तित्वेऽपि स्मरामीति रूपाप्रवेदनं कुतश्चित्कारणात्, तत्र स्मृतिप्रमोषोऽभिधीयते। अस्मिन्मते रजतमिति यत्फलसंवेदनं; तत्किं प्रत्यक्षफलस्य सतः, किं वा स्मृतेः । यदि प्रत्यक्षफलस्य; तदा यथेदमिति प्रत्यक्षफलं प्रतिभाति, तथा रजतमित्यपि; ततश्च तुल्ये प्रतिभासे; एकं प्रत्यक्षम्, अपरं स्मरणमिति किं कृतो विशेषः । अथोक्तं स्मरणस्यापि सतस्तद्रूपानवगमात् तेनाकारेणावगमः । तत्कि रजतमित्यत्राप्रतिपत्तिरेव । तस्यां चाभ्युपगम्यमानायां कथं स्मृतिप्रमोषः । अन्यथा मूर्छाद्यवस्थायामपि स्यात् । अथेदमिति तत्र प्रत्ययाभावान्नासौ। नन्विदमित्यत्रापि वक्तव्यम् । किमाभाति । पुरोऽवस्थितं शुक्तिशकलमिति चेत् । ननु किं प्रतिभासमानत्वेन तत्तत्र प्रतिभाति, उत सन्निहितत्वेन । प्रतिभासमानत्वेन तथाऽभ्युपगमे, न स्मृतिप्रमोषः । शुक्तिकाशकले हि स्वगतधर्मविशिष्टे प्रतिभासमाने, कुतो रजतस्मरणसंभावना । नहि घटग्रहणे पटस्मरणसंभवः । अथ शुक्तिकारजतयोः साह. श्यात् शुक्तिप्रतिभासे रजतस्मरणम् । न । तस्य विद्यमानत्वेऽप्यकिंचित्करत्वात् । यदाह्यसाधारणधर्माध्यासितं शुक्तिस्वरूपं प्रतिभाति, तदा कथं सदृशवस्तुस्मरणम् । अन्यथा सर्वत्र स्यात् । सामान्यमात्रग्रहणे हि तत्कदाचिद्भवेदपि; नासाधारणस्वरूपप्रतिभासे । तन्नेदमित्यत्र शुक्तिकाशकलस्य प्रतिभासनात् तथा व्यपदेशः ॥ सन्निहितत्वेनाप्रतिभासमानस्यापि तद्विषयत्वाभ्युपगमे, इन्द्रियसंबद्वानां तद्देशवर्त्तिनामण्वादीनामपि प्रतिभासः स्यात् । न चाप्रतिभासमानानां इन्द्रियादीनामिव प्रतीतिजनकानामपि तद्विषयता सङ्गच्छते । तन्नेदमित्यत्र शुक्तिकाशकलप्रतिभासः। नापि रजतमित्यत्र स्मृतित्वेऽपि तस्याः स्वरूपेणानवगमात्प्रमोष इत्यभ्युपगमो युक्तः। अथ स्मृतिरप्यनुभवत्वेन प्रतिभातीति तत्प्रमोषोऽभ्युपगम्यते। नन्वेवं सैव शून्यवादपरतःप्रामाण्यभयादनभ्युपगम्यमाना विपरीतख्यातिरापतिता । नचात्राप्रतिपत्तिरेव । रजतमित्येवं स्मरणस्यानुभवस्य वा प्रतिभासनात् ॥ इदमत्रैदंपर्यम् | अर्थसंवेदनमपरोक्षं सामान्यतोदृष्टं लिङ्गं यदि ज्ञातृव्यापारानुमापकमभ्युपगम्यते, तदा स्मृतिप्रमोषे रजतमित्यत्र संवेदनम्, उतासंवेदनम् । प्रतिभासोत्पत्तेः संवेदनेऽपि, रजतमनुभूयमानतया न संवेद्यते । स्मृतिप्रमोषाभावप्रसङ्गात्। नापि स्मर्यमाणतया। प्रमोषाभ्युपगमात् । विपरीतख्यातिस्तु नाभ्युप