________________
४६
सम्मतिताख्यप्रकरणस्यदनस्य, घटमिति प्रत्यक्षस्यार्थस्य; व्यापारस्य वपरस्य प्रमाणान्तरतः प्रतिपत्तिरित्यभ्युपगमः । अयुक्तमेतत् । यतः कल्पनोद्भूतशब्दमात्रमेतत्, न पुनरेष वस्तुत्रयप्रतिभासः । अतएवोक्तमाचार्येण-'एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्त्त समुत्पश्यामस्तत्र यथेष्टं संज्ञाः क्रियन्ताम् । किंच । व्यापारनिमिचे कारकसंबन्धे विकल्पद्वयम् । किं पूर्व व्यापारः, पश्चात्संबन्धः; उत पूर्व संबन्धः, पश्चाद्व्यापारः । पूर्वस्मिन् पक्षे न व्यापारार्थः संबन्धः। पूर्वमेव व्यापारसनावात् । उत्तरस्मिन् पुनर्विकल्पद्वयम् । संबन्धे सति किं परस्परसापेक्षाणां स्वव्यापारकर्तृत्वम्, उत निरपेक्षाणाम् । सापेक्षत्वे स्वव्यापारकर्तृत्वानुपपत्तिः । अनेकजन्यत्वात्तस्य । निरपेक्षत्वे किं मीलनेन; ततश्च संसर्गावस्थायामपि स्वव्यापारकरणादनवरतफलसिद्धिः । न चैतत् दृष्टमिष्टं वा । तन्न युक्तं व्यापारस्याप्रतीयमानस्य कल्पनम् । कोह्यन्यथासंभवति फले प्रतीयमानकल्पनेनात्मानमायासयति । अन्यथासंभवश्व, इन्द्रियादिषु सत्सु फलस्य प्रागेव दर्शितः। इन्द्रियादेस्तवाभ्युपगमनीयत्वात्। इतोऽपि संवेदनाख्यं फलमपरोक्षं व्यापारानुमापकमयुक्तम् । खदर्शनव्याघातप्रसक्तेः । तथाहि । भवता शून्यवादपरतःप्रामाण्यप्रसक्तिभयात् स्मृतिप्रमोषोऽभ्युपगतः । विपरीतख्यातो, तयोरवश्यंभावित्वात् । तथाहि । तस्यामन्यदेशकालोऽर्थस्तद्देशकालयोरसन् प्रतिभाति । नच तद्देशाद्यसत्त्वस्यात्यन्तासत्त्वस्य चासत्प्रतिभासे कश्चिद्विशेषः । यथाऽन्यदेशाद्यवस्थितमाकारं कुतश्विद् भ्रमनिमित्तात् ज्ञानं दर्शयति; तथा अविद्यावशादत्यन्तासन्तमपि किं न दर्शयति । तथाच कथं शून्यवादान्मुक्तिः ॥ तथा परतः प्रामाण्यमपि, मिथ्यात्वाशङ्कायां कस्यचिज्ज्ञानस्य बाधकाभावान्वेषणाद् वक्तव्यम् । तदन्वेषणे च, सापेक्षत्वं प्रमाणानामपरिहार्य विपरीतख्यातौ । ततो न कस्यचिद् ज्ञानस्य मिथ्यात्वम् ; तदभावान्नान्यदेशकालाकारार्थप्रतिभासो, नापि बाधकाभावापेक्षा । भ्रान्ताभिमतेषु तु तथा व्यपदेशः, स्मृतिप्रमोषात् । तथाहि । इदं रजतमिति प्रतीताविदमिति पुरो व्यवस्थितार्थप्रतिभासं, रजतमिति पूर्वावगतरजतस्मरणं, सादृश्यादेः कुतश्विन्निमित्तात्; तच्च स्मरणमपि, स्वरूपेण नावभासते इति स्मृतिप्रमोष उच्यते । यत्र स्मरामीति प्रत्ययस्तत्र स्मृतेरप्रमोषः। यत्र स्मृ.