________________
तत्त्वबोधविधायिनी व्याख्या ।
४५ धर्मिणि, तदा लिङ्गस्यापि तत्र नियतत्वनिश्चयोऽस्तीत्यनुमानमेवार्थापत्तिः स्यात् । एवंचार्थापत्तिरनुमानेऽन्तर्भूतेति पुनरपि प्रमाणषटकाभ्युपगमो विशीर्येत । अथ साध्यधर्मिणि, तन्निश्चय इत्यनुमानात् पृथगपत्तिः । तदात्रापि वक्तव्यम् । कुतः प्रमाणात् तस्य तन्निश्चयः । यदि विपक्षेऽनुपलम्भात्। तन्न युक्तम् । सर्वसम्बन्धिनोऽनुपलम्भस्यासिद्धत्वप्रतिपादनात् ; आत्मसंबन्धिनस्तु, अनैकान्तिकत्वादिति नान्यथाऽनुपपद्यमानत्वनिश्चयः। किंच। अर्थापत्त्युत्थापकस्यार्थानुभूयमानतालक्षणस्यार्थधर्मस्य य एव स्वप्रकल्प्यार्थाभावेऽवश्यंतयाऽनुपपद्यमानत्वनिश्चयः, स एव स्वप्रकल्प्यार्थसद्भाव एवोपपद्यमानत्वनिश्चय इत्यर्थापत्त्युत्थापकस्यार्थस्य, स्वसाध्यानुमापकस्य च लिङ्गस्य, न कश्चिद्विशेष इत्यनुमाननिरासेऽर्थापत्तेरपि निरासः कृत एवेति नार्थापत्तेरपि ज्ञातृव्यापारलक्षणप्रमाणनिश्वायकत्वम् ॥ येऽपि संवित्त्याख्यं फलं ज्ञातृव्यापारसद्भावे सामान्यतोदृष्टं लिङ्गमाहुः । तन्मतमप्यसम्यक् । यतः संवेदनाख्यस्य लिङ्गस्य किम् अर्थप्रतिभासस्वभावत्वम् , उत तद्विपरीतत्वमिति कल्पनाद्वयम् । तत्रार्थप्रतिभासस्वभावत्वेऽपि, किम् अपरेण ज्ञातृव्यापारेण कथितेन, इति वक्तव्यम् । तदुत्पत्तिस्तेन विना न सम्भवतीति चेन्न । इन्द्रियादेस्तदुत्पादकस्य सद्भावात् व्यर्थ तत्परिकल्पनम् । क्रियामन्तरेण कारककलापात्फलानिष्पत्तेः तत्कल्पनेति चेत् । नन्विन्द्रियादिसामग्न्यस्य क व्यापार इति वक्तव्यम् । क्रियोत्पत्ताविति चेत् । साऽपि क्रिया, क्रियान्तरमन्तरेण कथं कारककलापादुपजायत इति पुनरपि तदेव चोद्यम् । क्रियान्तरकल्पनेऽनवस्था प्राक्प्रतिपादितैव । तन्नार्थप्रतिभासस्वभावत्वेऽन्यो व्यापारः कल्पनीयः । निष्प्रयोजनत्वात् ॥ अथ द्वितीया कल्पनाऽभ्युपगम्यते । सापि न युक्ता । यतोऽर्थस्य संवेदनं तद्भवत् ज्ञातृव्यापारलिङ्गतां समासादयति । सा च तदसंवेदनस्वभावस्य कथं सङ्गता । शेषं तु पूर्वमेव निर्णीतमिति न पुनरुच्यते । किंच । अर्थप्रतिभासस्वभावं संवेदनं ज्ञानं, ज्ञाता, तद्व्यापारश्च बोधात्मकः; नैतत् त्रितयं क्वचिदपि प्रतिभाति ॥ अथ घटमहं जानामीति प्रतिपत्तिरस्ति, न चैषा निह्रोतुं शक्या, नाप्यस्या किञ्चिद् बाधकमुपलभ्यते; तत्कथं न त्रितयसद्भावः । तथाहि । अहमिति ज्ञातुः प्रतिभासो, जानामीति संवे