________________
४४
तम् । तत एवोक्तम्ः-.
सम्मतितर्द्धाख्यप्रकरणस्य
:
“स्वभावेऽध्यक्षतः सिद्धे यदि पर्यनुयुज्यते ।
तत्रोत्तरमिदं युक्तं न दृष्टेऽनुपपन्नता” ॥ १ ॥
तन्न तत्र व्यापारो नाम कश्चित् यथाऽभ्युपगतः परैः ॥ अथानुमानग्राह्यत्वे स्यादयं दोषः अत एवार्थापत्तिसमधिगम्यता तस्याभ्युपगता । ननु दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टकल्पनाऽर्थापत्तिः; तत्र कः पुनरसौ भावो व्यापारव्यतिरेकेण नोपपद्यते, यो व्यापारं कल्पयति । अर्थ इति चेत् । का पुन - रस्य तेन विनाऽनुपपद्यमानता ? | नोत्पत्तिः; स्वहेतुतस्तस्याः भावात् । किंच | असावर्थः किम् एकज्ञातृव्यापारमन्तरेणानुपपद्यमानस्तं कल्पयति, उत सर्वज्ञातृव्यापारमन्तरेणेति वक्तव्यम् । तत्र यदि सकलज्ञातृव्यापारमन्तरेणेति पक्षः । तदन्धानामपि रूपदर्शनं स्यात् तद्व्यापारमन्तरेणार्थाभावात् सर्वज्ञताप्रसङ्गश्च । अथ एकज्ञातृव्यापारमन्तरेणानुपपत्तिः; तर्हि यावदर्थसद्भावः तावत् तस्यार्थदर्शनमिति सुप्ताद्यभावः ॥ अथ अर्थधर्मोऽर्थप्रकाशतालक्षणो व्यापारमन्तरेणानुपपद्यमानस्तं कल्पयति । ननु साऽप्यर्थप्रकाशताऽर्थधर्मो, यद्यर्थ एव तदाऽर्थपक्षोक्तो दोषः । अथ तद्व्यतिरिक्तः । तदा तस्य स्वरूपं वक्तव्यम् । तस्यानुभूयमानता सा इलि - चेत् । न । पर्यायमात्रमेतत्, न तत्स्वरूपप्रतिपत्तिः इति स एव प्रश्नः । किंच । प्रकाशेऽनुभवश्च ज्ञानमेव, तदनवगमे तत्कर्मतायाः सुतरामनवगम इत्यर्थप्रकाशताऽनुभूयमानते स्वरूपेणानवगते, कथं ज्ञातृव्यापारपरिकल्पिके ? । किंच । अर्थप्रकाशतालक्षणोऽर्थधर्मोऽन्यथानुपपन्नत्वेनानिश्चितस्तं कल्पयति, आहोखित् निश्चित इति । तत्र यद्याद्यः कल्पः । स न युक्तः । अतिप्रसङ्गात् । तथाहि । यद्यनिश्चितोऽपि तथात्वेन स तं परिकल्पयति, तथा येन विनाऽपि स उपपद्यते तमपि किं न कल्पयति । विशेषाभावात् । अथानिश्चितोऽपि तेन विनाऽनुपपद्यमानलेन निश्चितः स तं परिकल्पयति, तर्हि लिङ्गस्यापि नियतत्वेनानिश्चितस्यापि स्वसाध्यगमकत्वं स्यात् । तथा च अर्थापत्तिरेव परोक्षार्थनिश्चायिका, नानुमानमिति षट्प्रमाणवादाभ्युपगमो विशीर्येत ॥ अथ अन्यथानुपपद्यमानत्वेन निश्चितः स धर्मस्तं परिकल्पयति । तदा वक्तव्यम् । क्व तस्यान्यथानुपपन्नत्वनिश्चयः । यदि दृष्टान्तः