________________
तत्त्वबोधविधायिनी व्याख्या ।
न तत्प्रमाणचिन्ताहमिति प्रतिपादितम् । प्रतिपादयिष्यते च प्रमाणचिन्ताऽवसरे अत्रैव ॥ तन्नाभावप्रमाणादपि विपक्षे साधनाभावनिश्चयः । अतो न अदर्शननिमित्तोऽपि प्रकृतव्यतिरेकनिश्चयः । तदभावात् न प्रकृतसाध्ये प्रकृतहेतोनियमलक्षणसंबन्धनिश्चयः । नचान्वयव्यतिरेकनिश्चयव्यतिरेकेणान्यतः कुतश्चित् तन्निश्चयः । नियमलक्षणस्य संबन्धस्य यथोक्तान्वयव्यतिरेकव्यतिरेकेणासम्भवात् । तथाहि । य एव साधनस्य साध्यसद्भावे एव भावः, अयमेव तस्य साध्ये नियमः। साध्याभावे साधनस्यावश्यंतयाऽभाव एव यः, अयमेव वा तस्य तत्र नियमः। अतो यदेवान्वयव्यतिरेकयोर्यथोक्तलक्षणयोर्निश्चायकं प्रमाणं, तदेव नियमस्वरूपसम्बन्धनिश्वायकम् । तन्निश्वायकं च प्रकृतसाध्यसाधने हेतोर्न सम्भवतीति प्रतिपादितम् । तन्नानुमानादपि ज्ञातृव्यापारलक्षणप्रमाणसिद्धिः॥ अथापि स्याद् ; बाह्येषु कारकेषु व्यापारवत्सु फलं दृष्टम् ; अन्यथा सिद्धखभावानां कारकाणामेकं धात्वर्थ साध्यमनङ्गीकृत्य कः परस्परसम्बन्धः; अतस्तदन्तरालवर्तिनी सकलकारकनिष्पाद्याऽभिमतफलजनिका व्यापारस्वरूपा क्रियाऽभ्युपगन्तव्या, इति प्रकृतेऽपि व्यापारसिद्धिरिति । एतदसम्बद्धम्। विकल्पानुपपत्तेः । तथाहि । व्यापारोऽभ्युपगम्यमानः, किं कारकजन्योऽभ्युपगम्यते, आहोवित् अजन्य इति विकल्पद्वयम् । तत्र यद्यजन्य इति पक्षः । सोऽयुक्तः । यतोऽजन्योऽपि किं भावरूपोऽभ्युपगम्यते, आहोस्विद् अभावरूपः। यद्यभावरूप इत्यभ्युपगमः। सोऽप्ययुक्तः। यतोऽभावरूपत्वे तस्यार्थप्रकाशलक्षणफलजनकत्वं न स्यात् । तस्य फलजनकत्वविरोधात्। अविरोधे वा, फलार्थिनः कारकान्वेषणं व्यर्थ स्यात् । तत एवाभिमतफलनिष्पत्तेर्विश्वमदरिद्रं च स्यात् । तन्नाभावरूपो व्यापारोऽभ्युगन्तव्यः॥ अथ भावरूपोऽभ्युपगमविषयः । तदाऽत्रापि वक्तव्यम् । किमसौ नित्यः, आहोस्वित् अनित्य इति । तत्र यदि नित्य इति पक्षः। सोऽसङ्गतः । नित्यभावरूपव्यापाराभ्युपगमेऽन्धादीनामप्यर्थदर्शनप्रसङ्गः; सुप्ताद्यभावः, सर्वसर्वज्ञताभावप्रसङ्गश्च । कारकान्वेषणवैयर्थ्य तु व्यक्तम् । अथानित्य इत्यभ्युपगमः। सोऽप्यलौकिकः । अजन्यस्य भावस्यानित्यवेन केनचिदनभ्युपगमात् । अथ वदेन्मयैवाभ्युपगतः । तत्रापि वक्तव्यम् । किं कालान्तरस्थायी,