________________
४०
सम्मतितक्कख्यप्रकरणस्य
ラ
मभ्युपगम्यते; तदा तमेव प्रतिपादयतु; प्रतियोगिनस्तु निवृत्तिः कथं तेन प्रतिपादिता स्यात् । अथाभावप्रतिपत्तौ तन्निवृत्तिप्रतिपत्तिः । ननु साऽपि निवृत्तिः प्रतियोगिखरूपासंस्पर्शिनी; ततश्च तत्प्रतिपत्तौ, पुनरपि कथं प्रतियोगिनिवृत्ति - सिद्धिः । तन्निवृत्तिसिद्धेरपरतन्निवृत्तिसिद्ध्यभ्युपगमे, अपरा तन्निवृत्तिस्तथाऽभ्युपगमनीयेत्यनवस्था । किंच । अभावप्रतिपत्तौ प्रतियोगिखरूपं किमनुवर्त्तते, व्यावर्त्तते वा। अनुवृत्तौ, कथं प्रतियोगिनोऽभावः । व्यावृत्तौ कथं प्रतिषेधः प्रतिपादयितुं शक्यः । तद्विविक्तप्रतिपत्तेस्तत्प्रतिषेध इति चेन्न । तदप्रतिभासने तद्विविक्तताया एव प्रतिपत्तुमशक्तेः । प्रतियोगिप्रतिभासात् नायं दोष इति चेत्; तर्हि विज्ञाने तस्य प्रतिभासः । यदि प्रत्यक्षे । न युक्तः । तत्सद्भावसिद्ध्या तन्निवृस्यसिद्धेः । स्मरणे तस्य प्रतिभास इति चेन्न । तत्रापि येन रूपेण प्रतिभाति, न तेनाभावः; येन न प्रतिभाति न तेन निषेधः तदेवं यदि प्रतियोगिस्वरूपादन्योऽभावः, तथापि तत्प्रतिपत्तौ न तन्निवृत्तिसिद्धिः । अनन्यत्वेऽपि तत्प्रतिपत्तौ प्रतियोगिनः प्रतिपन्नत्वात् न निषेधः । अपि च । तदभावाख्यं प्रमाणं निश्चितं सत्, प्रकृताभावनिश्चयनिमित्तत्वेनाभ्युपगम्यते; आहोखित् अनिश्चितमिति विकल्पइयम् । यद्यनिश्चितमिति पक्षः । स न युक्तः । स्वयमव्यवस्थितस्य खरविषाणादेखि अन्यनिश्चायकत्वायोगात् । इन्द्रियादेस्त्वानिश्चितस्यापि रूपादिज्ञानं प्रति कारणत्वात् निश्चायकत्वं युक्तम् ; न पुनरभावप्रमाणस्य । तस्यापरज्ञानं प्रति कारणत्वासम्भवात् । तदसम्भवश्च प्रमाणाभावात्मकलेनावस्तुत्वात् । वस्तुत्वेऽपि तस्यैव प्रमेयाभावनिश्चयरूपत्वेनाभ्युपगमार्हत्वात् । नापि द्वितीयः पक्षः । यतस्तन्निश्चयोऽन्यस्मादभावाख्यात्प्रमाणादभ्युपगम्येत; प्रमेयाभावाद्वा । तत्र यदि प्रथमपक्षः । स न युक्तः । अनवस्थाप्रसङ्गात् । तथाहि । अभावप्रमाणस्याभावप्रमाणान्निश्चितस्याभावनिश्चायकत्वं, तस्याप्यन्याभावप्रमाणादित्यनवस्था । अथ प्रमेयाभावात्तन्निश्चयः । सोऽपि न युक्तः । इतरेतराश्रयदोप्रसङ्गात् । तथाहि । प्रमेयाभावनिश्चयात्प्रमाणाभावनिश्चयः, सोऽपि प्रमाणाभावनिश्चयादिति इतरेतराश्रयत्वम् । नापि स्वसंवेदनात्प्रमाणाभावनिश्चयः । तस्य भवताऽनभ्युपगमात् । तन्न अभावाख्यं प्रमाणं सम्भवति । सम्भवेऽपि