________________
तत्त्वबोधविधायिनी व्याख्या ।
ज्ज्ञानोत्पत्तिनिमित्तम्॥ तन्न अन्यवस्तुविज्ञानलक्षणमप्यभावाख्यं प्रमाणं व्यतिरेकनिश्चयनिमित्तम् ॥
यच्च"गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया" ॥१॥ इत्यभावप्रमाणोत्पत्तौ निमित्तप्रतिपादनम्। तत्र किं वस्त्वन्तरस्य प्रतियोगिसंसृष्टस्य ग्रहणम् ,आहोस्वित् असंसृष्टस्य ।तत्र यद्याद्यः पक्षः। स न युक्तः। प्रतियो. गिसंसृष्टवस्त्वन्तरस्य प्रत्यक्षेण ग्रहणे, प्रतियोगिनः प्रत्यक्षेण वस्त्वन्तरे ग्रहणात्; नाभावाख्यप्रमाणस्य तत्र तदभावग्राहकत्वेन प्रवृत्तिः । प्रवृत्तौ वा प्रतियोगिसत्वेऽपि तदभावग्राहकत्वेन प्रवृत्तेविपर्ययः।तत्त्वान्न प्रामाण्यम् । अथ प्रतियोग्यसंसृष्टवस्त्वन्तरग्रहणम्। तदा प्रत्यक्षेणैव प्रतियोग्यभावस्य गृहीतत्वात्तत्राभावाख्यं प्रमाणं प्रवर्त्तमानं व्यर्थम् । अथ प्रतियोग्यसंसृष्टताऽवगमो वस्त्वन्तरस्याभावप्रमाणसंपाद्यः, तर्हि तदप्यभावाख्यं प्रमाणं प्रतियोग्यसंसृष्टवस्त्वन्तरग्रहणे सति प्रवर्त्तते । तदसंसृष्टतावगमश्च पुनरप्यभावप्रमाणसंपाद्य इत्यनवस्था। तथा प्रतियोगिनोऽपि स्मरणं किं वस्त्वन्तरसंसृष्टस्य, अथासंसृष्टस्य । यदि संसृष्टस्य; तदा नाभावप्रमाणप्रवृत्तिरिति पूर्ववद्वाच्यम् । अथासंसृष्टस्य स्मरणम् । ननु प्रत्यक्षेण वस्त्वन्तरासंसृष्टस्य प्रतियोगिनो ग्रहणे, तथाभूतस्य तस्य स्मरणं, नान्यथा। प्रत्यक्षेण च पूर्वप्रवृत्तेन वस्त्वन्तरासंसृष्टप्रतियोगिग्रहणे पुनरप्यभावप्रमाणपरिकल्पनं व्यर्थम् ॥ वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रया' इत्यभिधानात्तदर्थ तस्य परिकल्पनम्। तच्च प्रत्यक्षेणैव कृतमिति तस्य व्यर्थता ॥अथात्राप्यभावप्रमाणसंपाद्यः प्रतियोगिनो वस्त्वन्तरासंसृष्टताग्रहः; तर्हि तथाभूतप्रतियोगिग्रहणे तथाभूतस्य स्मरणं, तत्सद्भावे चाभावप्रमाणप्रवृत्तिः, तत्प्रवृत्तौ च तस्यासंसृष्टताग्रहः, तबहे च स्मरणमित्येवं चक्रकचोद्यं भवन्तमनुबध्नाति । नापि वस्तुमात्रस्य प्रत्यक्षेण ग्रहणमित्यभिधातुं शक्यम् । तथाऽभ्युपगमे, तस्य वस्त्वन्तरत्वासिद्धेः। प्रतियोगिनोऽपि प्रतियोगित्वस्येति न प्रतियोगिनो नियतरूपस्य स्मरणमिति सुतसमभावप्रमाणोत्पत्त्यभावः। किंच । यदि, अभावाख्यं प्रमाणमभावग्राहक