________________
सम्मतितकांख्यप्रकरणस्यनियतसाध्याभावस्य सर्वोपसंहारेण निश्चये, व्यतिरेको निश्चितो भवति। अन्यथा यत्रैव साध्याभावे साधनाभावो न भवति तत्रैव साधनसावेऽपि न साध्यमिति, न साधनं साध्यनियतं स्यादिति व्यतिरेकनिश्चयनिमित्तो न हेतोः साध्यनियमनिश्चयः स्यात्। तन्न द्वितीयोऽपि पक्षः। अथ न प्रकृतसाधनाभावज्ञानं तद्विविक्तसमस्तप्रदेशोपलम्भनिमित्तं, येन पूर्वोक्तो दोषः, किन्तु तद्विषयप्रमाणपञ्चकनिवृत्तिनिमित्तम् ।
तदुक्तम्
"प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्त्वसत्तावबोधार्थ तत्राभावप्रमाणता” ॥ १॥ नन्वत्रापि वक्तव्यम् । किं सर्वदेशकालावस्थितसमस्तप्रमातृसंबन्धिनी तन्निवृत्तिः, तथाभूतसाधनाभावज्ञाननिमित्तम् ; उत प्रतिनियतदेशकालावस्थितात्मसम्बन्धिनीति कल्पनाद्वयम् । तत्र यद्याद्या कल्पना । सा न युक्ता । तथाभूतायास्तन्निवृत्तेरसिद्धलात् । नचासिद्धावपि तथाभूतज्ञाननिमित्तम् । अतिप्रसङ्गात् । सर्वस्यापि तथाभूतज्ञाननिमित्तं स्यात् । केनचित्सह प्रत्यासत्तिविप्रकर्षाभावात्, अनभ्युपगमाच्च।नहि परेणापि प्रमाणपञ्चकनिवृत्तेरसिद्धाया अभावज्ञाननिमित्तताऽभ्युपगता । कृतयत्नस्यैव प्रमाणपञ्चकनिवृत्तेरभावसाधनत्वप्रतिपादनात् ।
“गत्वा गत्वा तु तान् देशान् यद्यर्थो नोपलभ्यते ।
तदाऽन्यकारणाभावादसन्नित्यवगम्यते” ॥१॥ इत्यभिधानात् । नचेन्द्रियादिवदज्ञाताऽपि प्रमाणपञ्चकनिवृत्तिरभावज्ञानं जनयिष्यतीति शक्यमभिधातुम् । प्रमाणपञ्चकनिवृत्तेस्तुच्छरूपत्वात् । नच तुच्छरूपाया जनकत्वम् । भावरूपताप्रसक्तेः । एवंलक्षणस्य भावत्वात् । तन्न सर्वसंबन्धिनी प्रमाणपञ्चकनिवृत्तिर्विपक्षे साधनाभावनिश्चयनिबन्धनम् ॥ नाप्यात्मसंबन्धिनी तन्निमित्तम् । यतः साऽपि किं तादात्विकी, अतीतानागतकालभवा वा। न पूर्वा । तस्या गङ्गापुलिनरेणुपरिसंख्यानेनानैकान्तिकत्वात्। नोत्तरा। तादात्विकस्यात्मनस्तन्निवृत्तेरसंभवात्, असिद्धत्वाच्च। तन्न आत्मसंबन्धिन्यपि प्रमाणपञ्चकनिवृत्तिस्त