________________
तत्वबोधविधायिनी व्याख्या ।
तत्र यदि निषेध्यविषयप्रमाणपञ्चकरूपत्वेनात्मनोऽपरिणामलक्षणमभावाख्यप्रमाणं साधनाभावनियत साध्याभावस्वरूपव्यतिरेकनिश्चयनिमित्तमित्यभ्युपगमः । स न युक्तः । तस्य समुद्रोदकपलपरिमाणेनानैकान्तिकत्वात् । अथान्यवस्तुविषयविज्ञानस्वरूपमभावाख्यं प्रमाणं व्यतिरेकनिश्चयनिमित्तमिति पक्षः । सोऽपि न युक्तः । विकल्पैरनुपपत्तेः । तथाहि । किं तत्साध्यनियतसाधनस्वरूपादन्यद् वस्तु, यद् विषयं ज्ञानं तदन्यज्ञानमित्युच्यते । यदि यथोक्तसाधनखरूपव्यतिरिक्तं पदार्थान्तरम् ; तदा वक्तव्यम् । तदेकज्ञानसंसर्गि, साधनेन सह, उतान्यथेति । यदि यथोक्तसाधनेनैकज्ञानसंसर्गिं तदा तद्विषयज्ञानात् सिध्यति यथोक्तसाधनस्याभावनिश्चयः प्रतिनियतविषयः । किन्तु यत्र यत्र साध्याभावस्तत्र तत्रावश्यंतया साधनस्याप्यभाव इत्येवंभूतो व्यतिरेकनिश्चयो न ततः सिद्ध्यति । सर्वोपसंहारेण साधनाभावनियत साध्याभावनिश्चयस्य हेतोः साध्यनियतत्वलक्षणनियमो निश्चायक इति नैकज्ञानसंसर्गिपदार्थान्तरोपलम्भादभावाख्यात्प्रमाणात् व्यतिरेकनिश्चयः । अथ तदसंसर्गि पदार्थान्तरोपलम्भखरूपमभावाख्यं प्रमाणं, साध्याभावे साधनाभावनिश्चयनिमित्तम् । तदप्यसम्बद्धम् । अतिप्रसङ्गात् । नहि पदार्थान्तरोपलम्भमात्रादन्यस्य तदतुल्ययोग्यतारूपस्य तेन सहैकज्ञानासंसगिणः पदार्थान्तरस्याभावनिश्चयः । अन्यथा सह्योपलम्भाद्विन्ध्याभावनिश्चयः स्या त् ॥ अथ तथाभूतसाधनादन्यस्तदद्भावः तद्विषयं ज्ञानं तदन्यज्ञानं, तद्विपक्षे साधनाभावनिश्चयनिमित्तम् । ननु तदपि ज्ञानं, किं यत्र यत्र साध्याभावस्तत्र तत्र साधनाभाव इत्येवं प्रवर्त्तते, उत कचिदेव साध्याभावे साधनाभाव इत्येवम् । तत्र यद्याद्यः कल्पः । स न युक्तः । यथोक्तसाधनविविक्तसर्वप्रदेशकालप्रत्यक्षीकरणमन्तरेण एवंभूतज्ञानोत्पत्त्यसम्भवात् । सर्वदेशप्रत्यक्षीकरणे च कालादिविप्रकृष्टानन्तप्रदेशप्रत्यक्षीकरणवत् स्वभावादिव्यवहितसर्वपदार्थ साक्षात्करणात् स एव सर्वदर्शी स्यादित्यनुमानाश्रयणं, सर्वज्ञाभावप्रसाधनं चानुपपन्नम् । अथ द्वितीयपक्षाभ्युपगमः । तदा भवति ततः प्रतिनियते प्रदेशे साध्याभावे साधनाभावनिश्चयः, घटविविक्तप्रत्यक्षप्रदेश इव घटाभावनिश्चयः । किंतु तथाभूतात्साध्याभावे साधनाभावनिश्चयान्न व्यतिरेको निश्चितो भवति । साधनाभाव
,
३७