________________
३६
सम्मतितकाख्यप्रकरणस्ययतो व्यापकलमपि पूर्वोक्तहेतुं प्रति ज्ञातृव्यापारस्यैवाभ्युपगन्तव्यम्। अन्यथाऽन्यस्य व्यापकले साध्यविपक्षाद् व्यापकनिवृत्तिद्वारेण निवर्तमानमपि साधनं न साध्यनियतं स्यात् । अथ यथा सत्त्वलक्षणो हेतुः क्षणिकवलक्षणसाध्यव्यतिरिक्तक्रमयोगपद्यस्वरूपपदार्थान्तरव्यापकनिवृत्तिद्वारेण, अक्षणिकलक्षणाद् वि. पक्षाद् व्यावर्त्तमानः स्वसाध्यनियतः, तथा प्रकृतोऽपि हेतुविष्यति । असम्यगेतत् । यतस्तत्रापि यद्यर्थक्रियालक्षणसत्त्वव्यापके क्रमयोगपद्ये कुतश्वित्प्रमाणात् क्षणिके सिद्धे भवतस्तदा तन्निवृत्तिद्वारेण विपक्षात् व्यावर्तमानोऽपि सत्त्वलक्षणो हेतुः स्वसाध्यनियतः स्यात् । अन्यथा तत्र व्यापकवृत्त्यनिश्वये राश्यन्तरे क्षणिकाक्षणिकरूपे तस्याशङ्कयमानलेन तद्व्याप्यस्यापि नैकान्ततः क्षणिकनियतत्वनिश्चयः । नच प्रकृतसाध्येऽयं न्यायः । तस्यात्यन्तपरोक्षलेन हेतुव्यापकभावान्तराधिकरणबासिद्धेः। तन्न व्यापकानुपलम्भनिमित्तोऽपि विपक्षे साधनाभावनिश्चयः ॥ नापि विरुद्धोपलब्धिनिमित्तः । प्रकृतसाध्यस्यात्यन्तपरोक्षत्वेन तदप्रतिपत्तौ तदभावनियतविपक्षस्याप्यप्रतिपत्तितस्तेन सहार्थप्रकाशनलक्षणस्य हेतोः सहानवस्थानलक्षणविरोधासिद्धेः। परस्परपरिहारस्थितलक्षणस्तु विरोधोऽन्योन्यव्यवच्छेदरूपयोरर्थप्रकाशनाप्रकाशनयोः सम्भवति; न पुनरर्थप्रकाशनज्ञातृव्यापारयोः । अन्योन्यव्यवच्छेदरूपत्वाभावात्। नापि ज्ञातृव्यापारनियतत्वादर्थप्रकाशनस्य साध्यविपक्षेण विरोध इति शक्यमाभिधातुम् । अन्योन्याश्रयदोषप्रसक्तेः। तथाहि । सिद्धे तन्नियतत्वे तद्विपक्षविरोधसिद्धिः, तत्सिद्धेश्च तन्नियतत्वसिद्धिरिति स्पष्ट एवेतरेतराश्रयो दोषः। तन्न विरुद्धोपलब्धिनिमित्तोऽपि विपक्षे साधनाभावनिश्चयः॥ अथादर्शनशब्देन अभावाख्यं प्रमाणं व्यतिरेकनिश्चयनिमित्तमभिधीयते।तदप्यनुपपन्नम्। तस्य तन्निमित्तत्वासम्भवात् । तथाहि । निषेध्यविषयप्रमाणपञ्चकखरूपतयाऽऽत्मनोऽपरिणामरूपं वा तदभ्युपगम्येत, तदन्यवस्तुविषयज्ञानरूपं वा । गत्यन्तराभावात् । तदुक्तम्
“प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि ॥ १ ॥