________________
तत्त्वबोधविधायिनी व्याख्या। ३५ भिमतः। स न युक्तः । स्वभावानुपलम्भस्यैवंविधे विषये व्यापारासंभवात् । तथाहि । एकज्ञानसंसर्गिणस्तुल्ययोग्यतास्वरूपस्य भावान्तरस्याभावव्यवहारसाधकत्वेन पर्युदासवृत्त्या तदन्यज्ञानस्वभावोऽसावभ्युपगम्यते । नच प्रकृतस्य साध्यस्य केनचित्सहैकज्ञानसंसर्गित्वं संभवतीति नात्र स्वभावानुपलम्भस्य व्यापारः । नापि कारणानुपलम्भः प्रकृतसाध्याभावनिश्चायकः । यतः सिद्धे कार्यकारणभावे कारणानुपलम्भः कार्याभावनिश्चायकत्वेन प्रवर्तते । न च प्रकृतस्य साध्यस्य केनचित्सह कार्यत्वं निश्चितम् । तस्यादृश्यत्वेन प्रागेव प्रतिपादनात् । प्रत्यक्षानुपलम्भनिबन्धनश्च कार्यकारणभाव इति कारणानुपलम्भोऽपि न तन्निश्चायकः । व्यापकानुपलम्भस्तु, सिद्धे व्याप्यव्यापकभावे व्याप्याभावसा. धकोऽभ्युपगम्यते । नच प्रकृतसाध्यव्यापकत्वेन कश्चित्पदार्थो निश्चेतुं शक्यः । प्रकृतसाध्यस्यादृश्यत्वप्रतिपादनात् । तन्न व्यापकानुपलम्भोऽपि तन्निश्वायकः। विरुद्धोपलब्धिरप्यत्र विषये न प्रवर्त्तते । तथाहि । एको विरोधोऽविकलकारणस्य भवतोऽन्यभावेऽभावात्सहानवस्थानलक्षणो निश्चीयते; शीतोव्णयोरिव । विशिष्टात् प्रत्यक्षात् । नच प्रकृतं साध्यमविकलकारणं कस्यचिद्भावे निवर्तमानमुपलभ्यते । तस्यादृश्यत्वादेव । द्वितीयस्तु परस्परपरिहारस्थितिलक्षणः । सोऽपि लक्षणस्य स्वरूपव्यवस्थापकधर्मरूपस्य दृश्यत्वाभ्युपगमनिष्ठो, दृश्यत्वाभ्युपगमनिमित्तप्रमाणनिबन्धनो न प्रकृतसाध्यविषये संभवति । तन्न ततोऽपि प्रस्तुतसिद्धिः । तन्न साध्यस्याभावनिश्चयोऽनुपलम्भनिबन्धनः॥ साधनाभावनिश्चयोऽपि नादृश्यानुपलम्भनिमित्तः । उक्तदोषत्वात् । दृश्यानुपलम्भनिमित्तत्वेऽपि, न स्वभावानुपलम्भस्तन्निमित्तम् । उद्दिष्टविषयाभावव्यवहारसाधकत्वेन तस्य व्यापाराभ्युपगमात् । अनुद्दिष्टविषयत्वेऽपि, यत्र यत्र साध्याभावस्तत्र तत्र साधनाभाव इति; एवं न ततः साधनाभावनिश्चयः। तन्निश्चयश्च नियमनिश्चयहेतुरिति न स्वभावानुपलम्भोऽपि तन्नियमहेतुः ॥ नापि कारणानुपलम्भः। यतः कारणं ज्ञातृव्यापार एवार्थप्रकटतालक्षणस्य हेतोर्भवताऽभ्युपगम्यते । न चासौ प्रत्यक्षसमाधगम्य इति कुतस्तस्य सम्प्रति कारणत्वावगम इति न कारणानुपलम्भोऽपि तदभावनिश्चयहेतुः ॥ व्यापकानुपलम्भेऽप्ययमेव न्यायः।