________________
३४
सम्मतिताख्यप्रकरणस्यपगतस्य प्रत्यक्षेण सहावः शक्यते ग्रहीतुम् । तद्ाहकत्वेन प्रत्यक्षस्य पूर्वमेव निषिद्धत्वात् , वयाऽनभ्युपगमाच्च । नापि ज्ञातृव्यापारसद्भावे एवार्थप्रकाशनलक्षणस्य हेतोः सद्भावः प्रत्यक्षेण ज्ञातुं शक्यः । तस्यापीन्द्रियव्यापारजेन प्रत्यक्षेण प्रतिपत्तुमशक्तेः । तदशक्तिश्च, अक्षाणां तेन सह संबन्धाभावात् । नापि खसंवेदनलक्षणेन प्रत्यक्षेण पूर्वोक्तस्य हेतोः सद्भावः शक्यो निश्चेतुम् । भवदभिप्रायेण तत्र तस्याव्यापारात् । तन्न प्रत्यक्षेण साध्यसहावे एव हेतुसद्भावलक्षणोऽन्वयो निश्चेतुं शक्यः ॥ नाप्यनुमानेन तन्निश्चयः । अनुमानस्य निश्चितान्वयहेतुप्रभववाभ्युपगमात् । न च तस्यान्वयः प्रत्यक्षसमधिगम्यः । पूर्वोक्तदोषप्रसङ्गात् । अनुमानात् तन्निश्चयेऽनवस्थेतरेतराश्रयदोषावनुषज्येते इति प्रागेव प्रतिपादितम् । नच प्रत्यक्षानुमानव्यतिरिक्तं प्रमाणान्तरं सम्भवति । तन्न अन्वयनिश्चयद्वारेण ज्ञातृव्यापारे साध्ये पूर्वोत्तस्य हेतोनियमलक्षणः सं. बन्धो निश्वेतुं शक्यः ॥ नापि व्यतिरेकनिश्चयद्वारेण । यतो व्यतिरेकः साध्याभावे हेतोरभाव एवेत्येवंस्वरूपः । नच प्रकृतस्य साध्यस्याभावः प्रत्यक्षेण समधिगम्यः । तस्याभावविषयत्वविरोधादनभ्युपगमाद्, अभावप्रमाणवैयर्थ्यप्रसङ्गाच्च । नाप्यनुमानादिसद्भावग्राहकप्रमाणनिश्वेयः। अत एव दोषात् ॥ अथादर्शननिश्चेय इति पक्षः । सोऽपि न युक्तः । यतोऽदर्शनं किमनुपलम्भरूपम् , आहोस्विद् अभावप्रमाणस्वरूपमिति वक्तव्यम् । तत्र यद्याद्यः पक्षः । स न युक्तः । यतोऽत्रापि वक्तव्यम् । अनुपलम्भः किं दृश्यानुपलम्भोऽभिप्रेतः, आहो. खिद् अदृश्यानुपलम्भ इति । तत्र यद्यदृश्यानुपलम्भः प्रकृतसाध्याभावनिश्चायकोऽभिप्रेतः। तदाऽत्रापि कल्पनाद्वयम्। किं खसंबन्धी अनुपलम्भस्तन्निश्चायकः, उत सर्वसंबन्धी । यद्यात्मसंबन्धी तन्निश्वायकः । स न युक्तः । परचेतोवृत्तिविशेषैस्तस्यानैकान्तिकत्वात् । अथ सर्वसंबन्धी अनुपलम्भस्तन्निश्चायक इत्यभ्युपगमः । अयमप्ययुक्तः । सर्वसंबन्धिनोऽनुपलम्भस्यासिद्धत्वात् ॥ अथ दृश्यानुपलम्भस्तन्निश्चायक इति पक्षः । सोऽप्यसङ्गतः । यतो दृश्यानुपलम्भश्चतुर्दा व्यवस्थितः । स्वभावानुपलम्भः, कारणानुपलम्भो, व्यापकानुपलम्भो, विरुद्धविधिश्चेति । तत्र यदि खभावानुपलम्भस्तन्निश्चायकलेना