________________
तत्त्वबोधविधायिनी व्याख्या। संबन्धो गम्यगमकभावनिबन्धनम्।तथाऽभ्युपगमे वक्तृत्वादेरप्यसर्वज्ञत्वं प्रति गमकत्वं स्यात् । अथ सर्वज्ञत्वे, वक्तृत्वादेर्बाधकप्रमाणाभावात्सर्वज्ञत्वादिभ्यो वक्तृत्वादेावृत्तिः सन्दिग्धेति संदिग्धविपक्षव्यावृत्तिकत्वान्नायं गमकः; तर्हि धूमस्या. प्यनमौ बाधकप्रमाणाभावात्ततो व्यावृत्तिः सन्दिग्धेति सन्दिग्धविपक्षव्यावृत्तिकत्वादग्निं प्रति गमकत्वं न स्यात् । अथ कार्य धूमो हुतभुजः, कार्यधर्मानुवृत्तितः; स तदभावेऽपि भवन्, कार्यमेव न स्यादित्यनग्नौ धूमस्य सद्भावबाधकं प्रमाणं विद्यत इति नासौ सन्दिग्धविपक्षव्यावृत्तिकः । तद्येतत् प्रकृतेऽपि वक्तृत्वादौ समानमिति तस्याप्यसर्वज्ञत्वं प्रति गमकत्वं स्यात् । किंच । कार्यत्वे सत्यपि वक्तृत्वादेः, सन्दिग्धविपक्षव्यावृत्तिकत्वेनासर्वज्ञत्वं प्रत्यनियतत्वात् यद्यगमकत्वं, तर्हि स एवास्मदभ्युपगतो नियमलक्षणः संबन्धोऽभ्युपगतो भवति । अपि च । तादात्म्यतदुत्पत्तिलक्षणसंबन्धाभावेऽपि नियमलक्षणसंबन्धप्रसादात्, कृत्तिकोदय-चन्द्रोद्गमना-द्यतनसवित्रुद्गम-गृहीताण्डपिपीलिकोत्सर्पणै-काम्रफलोपलभ्यमानमधुररसस्वरूपाणां हेतूनां, यथाक्रमं भाविशकटोदय-समानसमयसमुद्रवृद्धि-श्वस्तनभानूदय-भाविवृष्टि-तत्समानकालसिन्दूरारुणरूपस्वभावेषु साध्येषु, गमकत्वं सुप्रसिद्धम्। संयोगादिलक्षणस्तु संबन्धो भवतैव साध्यप्रतिपादनाङ्गत्वेन निरस्त इति तं प्रति न प्रयस्यते ।
"एवं परोक्तसंबन्धप्रत्याख्याने कृते सति । नियमो नाम संबन्धः स्वमतेनोच्यतेऽधुना ॥ १ ॥ कार्यकारणभावादिसंबन्धानां द्वयी गतिः । नियमानियमाभ्यां स्यात् , अनियमादतद्गता ॥ २ ॥ सर्वेऽप्यनियमा ह्येते नानुमोत्पत्तिकारणम् ।
नियमात्केवलादेव न किञ्चिन्नानुमीयते” ॥ ३ ॥ इत्यादि । सच संबन्धः किमन्वयनिश्चयद्वारेण प्रतीयते, उत व्यतिरेकनिश्चयद्वारेणेति विकल्पद्वयम् । तत्र यदि प्रथमो विकल्पोऽभ्युपगम्यते; तत्रापि वक्तव्यम् । किं प्रत्यक्षेणान्वयनिश्चयः, उतानुमानेनेति । न तावत्प्रत्यक्षेणान्वयनिश्चयः । अन्वयस्य हि रूपं तद्भावे एव भावः । नच ज्ञातृव्यापारस्य प्रमाणवेनाभ्यु