________________
सम्मतिताख्यप्रकरणस्ययोरविनाभावस्यापि मिथ्याज्ञानेऽन्यत्र निश्चितत्वात्, तद्विरुद्धत्वानैकान्तिकत्वयोरप्यभाव इति भवत्यतो हेतोः प्रेरणाप्रभवे ज्ञाने प्रामाण्याभावसिद्धिः । किंच । प्रामाण्ये सिद्धे सति, किं, तत प्रामाण्यं स्वतः, परतो वेति चिन्ता युक्तिमती । भव- , दभ्युपगमेन तु तदेव न सम्भवति । तथाहि । ज्ञातृव्यापारः प्रमाणं भवताभ्युपगम्यते । नचासौ युक्तः । तद्ग्राहकप्रमाणाभावात् । तथाहि । प्रत्यक्षं वा तद्राहकम्, अनुमानम् , अन्यहा प्रमाणान्तरम् । तत्र यदि प्रत्यक्षं तद्राहकमभ्युपगम्येत, तदाऽत्रापि वक्तव्यम् । स्वसंवेदनं, बाह्येन्द्रियजं, मनःप्रभवं वा। न तावत् स्वसंवेदनं तद्राहकम् । भवता तबाह्यत्वानभ्युपगमात् तस्य । नापि बाह्येन्द्रियजम् । इन्द्रियाणां स्वसंबद्धेऽर्थे ज्ञानजनकत्वाभ्युपगमात् । न च ज्ञातृव्यापारेण सह तेषां संबन्धः। प्रतिनियतरूपादिविषयत्वात् । नापि मनोजन्यं प्रत्यक्षं ज्ञातृव्यापारलक्षणप्रमाणग्राहकम्। तथाप्रतीत्यभावात्, अनभ्युपगमाच्च। अथानुमानं तबाहकमभ्युपगम्यते । तदप्ययुक्तम् । यतोऽनुमानमपि ज्ञातसंबन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिरित्येवंलक्षणमभ्युपगम्यते । संबन्धश्वान्यसंबन्धव्युदासेन नियमलक्षणोऽभ्युपगम्यते । यत उक्तम् । संबन्धो हि न तादात्म्यलक्षणो गम्यगमकभावनिबन्धनम् । ययोर्हि तादात्म्यं, न तयोर्गम्यगमकभावः । तस्य भेदनिबन्धनत्वात् । अभेदे वा, साधनप्रतिपत्तिकाल एव साध्यस्यापि प्रतिपन्नत्वात्कथं गम्यगमकभावः । अप्रतिपत्तौ वा, यस्मिन् प्रतीयमाने यन्न प्रतीयते तत्ततो भिन्नम् ; यथा घटे प्रतीयमानेऽप्रतीयमानः पटः । न प्रतीयते चेत्साधनप्रतीतिकाले साध्यं, तदा तत्ततो भिन्नमिति कथं तयोस्तादात्म्यम् । किंच। यदि तादात्म्याद् गम्यगमकभावोऽभ्युपगम्यते; तदा तादात्म्याविशेषाद्यथा प्रयत्नानन्तरीयकत्वमनित्यत्वस्य गमकम्, तथाऽनित्यत्वमपि प्रयत्नानन्तरीयकत्वस्य गमकं स्यात् । अथ प्रयत्नानन्तरीयकत्वमेवानित्यत्वनियतत्वेन निश्चितं, नानित्यत्वं तन्नियतत्वेन; निश्चयापेक्षश्च गम्यगमकभाव इति, तर्हि 'यस्मिन्निश्चीयमाने यन्न निश्चीयते' इत्यादि पूर्वोक्तमेव दूषणं पुनरापतति। अपि च ।प्रयत्नानन्तरीयकत्वमेव, अनित्यत्वनियतत्वेन निश्चितमिति वदता स एवास्मदभ्युपगतो नियमलक्षणः संबन्धोऽभ्युपगतो भवति ॥ नापि तदुत्पत्तिलक्षणः