________________
४२ .
सम्मतिताख्यप्रकरणस्यउत क्षणिकः । यदि कालान्तरस्थायी; तदा 'क्षणिका हि सा न कालान्तरमवतिष्ठते' इति वचः परिप्लवेत । कारकान्वेषणं चात्रापि पक्षे, फलार्थिनामसङ्गतम् । कियत्कालस्थाय्यजन्यभावरूपव्यापाराभ्युपगमे, तत्कालं यावत् तत्फलस्यापि निष्पत्तेः, आव्यापारविनाशमर्थप्रकाशलक्षणकार्यसद्भावादन्धत्वमूर्छादीनामभावः स्यात् । अथ क्षणिक इति पक्षः । सोऽपि न युक्तः । क्षणानन्तरं व्यापारासत्त्वेनार्थप्रतिभासाभावात् । अपगतार्थप्रतिभासं सर्व जगत् स्यात् । अथ खत एव द्वितीयादिक्षणेषु व्यापारोत्पत्तेर्नायं दोषः । अजन्यत्वं तु तस्यापरकारकजन्यत्वाभावेन । नैतदस्ति । कारकानायत्तस्य देशकालखरूपप्रतिनियमाभावस्वभावतायाः प्रतिपादनात् । किंच । अनवरतक्षणिकाजन्यव्यापाराभ्युपगमे, तज्जन्यार्थप्रतिभासस्यापि तथैव भावात् सुप्ताद्यभावदोषस्तदवस्थः । तन्नाजन्यव्यापाराभ्युपगमः श्रेयान् ॥ अथ जन्यो व्यापार इति पक्षः कक्षीक्रियते । तदाऽत्रापि विकल्पद्वयम् । किमसौ जन्यो व्यापारः क्रियाऽऽत्मकः, उत तदनात्मक इति । तत्र यदि प्रथमः पक्षः । स न युक्तः । अत्रापि विकल्पहयानतिवृत्तेः । तथाहि । सापि क्रिया किं स्पन्दात्मिका, उत अस्पन्दात्मिका । यदि स्पन्दात्मिका; तदाऽऽत्मनो निश्चलत्वादन्येषां कारकाणां व्यापारसद्भावेऽपि व्यापारो न स्यात्, यदर्थोऽयं प्रयासः; तदेवेत्युक्तं भवतैवमभ्युपगच्छता । अथापरिस्पन्दात्मिका क्रिया व्यापारस्वभावा । न । तथाभूतायाः परिस्पन्दाभावरूपतया फलजनकत्वायोगात्, अभावस्य जनकत्वविरोधात् । न च क्रिया कारणफलापान्तरालवर्तिनी परिस्पन्दखभावा, तद्विपरीतखभावा वा प्रमाणगोचरचारिणीति न तस्याः सद्व्यवहारविषयत्वमभ्युपगन्तुं युक्तमिति न कियाऽऽत्मको व्यापारः ॥ नापि तदनात्मको व्यापारोऽङ्गीकर्तु युक्तः । तत्रापि विकल्पद्वयप्रवृत्तेः । तथाहि । किमसावक्रियाऽऽत्मको व्यापारो बोधस्वरूपः, अबोधस्वभावो वा । यदि बोधस्वरूपः, प्रमातृवन्न प्रमाणान्तरगम्यताऽभ्युपगन्तुं युक्ता । अथाबोधस्वभावः । नायमपि पक्षः। बोधात्मकज्ञातृव्यापारस्याबोधात्मकत्वासम्भवात्। न हि चिद्रूपस्याचिद्रूपो व्यापारो युक्तः । जानातीति च ज्ञातृव्यापारस्य बोधात्मकस्यैवाभिधानात् । तन्न अबोध. खभावोऽपि व्यापारः । किंच । असौ ज्ञातृव्यापारो धर्मिस्वभावः, उत धर्मस्वभाव