________________
१९६
सम्मतिताख्यप्रकरणस्यदर्शनात् । न च बुद्धिखरूपमप्यपरबुद्धिस्वरूपमनुगच्छति इति न तदपि सामान्यमित्येकानुगतजातिवादो मिथ्यावादः।अपिच। अनेकव्यक्तिव्यापि सामान्यं तहादिभिरभ्युपगम्यते। न च तद्व्यापित्वं तस्य केनचित् ज्ञानेन व्यवस्थापयितुं शक्यम्। तथाहि । सन्निहितव्यक्तिप्रतिभासकाले जातिस्तद्व्यक्तिसंस्पर्शिनी स्फुटमवभाति, न व्यक्त्यन्तरसंबन्धितया । तस्यास्तथाऽसन्निधानेन प्रतिभासायोगात् । तदप्रतिभासे च तन्मिश्रताऽपि नावगतेति कथमसन्निहितव्यत्यन्तरसंबद्धशरीरा जातिरवभाति । यदेव हि परिस्फुटदर्शने प्रतिभाति रूपम्, तदेव तस्या युक्तम् । दर्शनासंस्पर्शिनः स्वरूपस्यासंभवात् । संभवे वा तस्य दृश्यस्वभावाद्भेदप्रसङ्गात्, तदेकले सर्वत्र भेदप्रतिहतेः; अतो नैकं जगत्स्यात् । दर्शनगोचरातीतं च व्यत्तयन्तरसंबद्धं जातिस्वरूपमप्रतिभासनादसत् । प्रतिभासने वा तस्य तत्संबद्धानां व्यवहितव्यत्यन्तराणामपि प्रतिभासप्रसङ्ग इति सकलजगत्प्रतिभासः स्यात् । अथ मतं सन्निहितव्यक्तिदर्शनकाले व्यक्त्यन्तरसंबन्धिनी जातिर्न भाति; यदा तु व्यक्त्यन्तरं दृश्यते तदा तदर्शनवेलायां तद्गतत्वेन जातिराभातीति साधारणखरूपपरिच्छेदः पश्चात् संभवतीति। ततश्च पश्चादर्थान्वयदर्शने कथं न तस्यास्तद्व्यापिताग्रहः। असदेतत्। यतो व्यक्त्यन्तरदर्शनकालेऽपि तत्परिगतमेव जातेः खरूपं प्रतिभाति, न पूर्वव्यक्तिसंस्पर्शितया तस्याः प्रत्यक्षगोचरातिक्रान्ततया । तत्संबद्धस्यापि रूपस्य तदतिक्रान्तत्वात् । तत्कथं सन्निहितासन्निहितव्यक्तिसंबद्धजातिरूपावगमः । अथ प्रत्यभिज्ञानादनेकव्यक्तिसंबन्धित्वेन जातिः प्रतीयते । ननु केयं प्रत्यभिज्ञा ?। यदि प्रत्यक्षम्, कुतस्तदवसेया जातिरेकानेकव्यक्तिव्यापिनी प्रत्यक्षा?। अथ नयनव्यापारानन्तरं समुपजायमाना प्रत्यभिज्ञा कथं न प्रत्यक्षम् । निर्विकल्पकस्याप्यक्षान्वयव्यतिरेकानुविधानात् प्रत्यक्षत्वम्, तदत्रापि तुल्यम् । असदेतत् । यद्यक्षजा प्रत्यभिज्ञा, तथा सति प्रथमव्यक्तिदर्शनकाल एव समस्तव्यक्तिसंबद्धजातिरूपपरिच्छेदोऽस्तु । अथ तदा स्मृतिसहकारिविरहान्न तत्त्वावगतिः, यदा तु द्वितीयव्यक्तिदर्शनं तदा पूर्वदर्शनाहितसंस्कारप्रबोधसमुपजातस्मृति. सहितमिन्द्रियं तत्त्वदर्शनं जनयति। तदप्यसत्। यतः स्मरणसचिवमपि लोचनं पुरःसन्निहितायामेव व्यक्तौ तत्स्थजातौ च प्रतिपत्तिं जनयितुमीशम् ; न पूर्व