________________
बोधविधायिनी व्याख्या ।
१९७
-
व्यक्तौ, असन्निधानात् । तन्न तत्स्थितां जातिं दर्शनं परिदृश्यमाने व्यक्त्यन्तरे संघ | अथेन्द्रियवृत्तिर्न स्मरणसमवायिनी, करणत्वादिति नासौ संधानकारिणी । पुरुषस्तु कर्तृतया स्मृतिसमवायीति चक्षुषा परिगतेऽर्थे तदुपदर्शितपूर्वव्यक्तिगतां जातिं संधास्यतीति । तदसत् । यतः सोऽपि न स्वतन्त्रतयाऽर्थग्राहकः, किन्तु दर्शनसहायः । यदि पुनः स्वतन्त्र एवार्थग्राहकः स्यात् । तथा सति खापमदमूर्छादिष्वपि सर्वव्यक्त्यनुगतजातिप्रतिपत्तिः स्यात् । तस्मादात्माऽपि दर्शन सहाय एवार्थवेदी, दर्शनं च पुरःसन्निहितं व्यक्तिखरूपमनुसरति । नहि स्मृतिगोचरमपि पूर्वदृष्टव्यक्तिगतं जात्यादिकमिति न दर्शनसहायोऽपि तदनुसंधानसमर्थ आत्मा । अथ स्मरणोपनीतं जातिरूपमात्मा तत्र संधास्यति । नन्वत्रापि स्मृतिः परिहृतपुरोवर्त्तिव्यक्तिदर्शनविषया पूर्वदृष्टमर्थमनुसरन्ती संलक्ष्यते; तत्कथं पुरोवर्त्तिन्यप्रवर्त्तमाना स्वविषयान् सामान्यादींस्तत्र संघटयितुं क्षमा । तदस्मृतं च संघटनं कथमात्माऽपि कर्तुं क्षमः ? । तथाहि । दर्शने सति द्रष्टरि तस्य स्वरूपे जाते तन्निमग्नं, न स्मृतिकृतं स्मर्तृरूपं भाति; यदि तु भाति तथा सति द्रष्टृरूप एवासौ, न स्मर्त्ती । अथ स्मर्तृरूपे द्रष्टृस्वरूपमनुप्रविष्टं प्रतिभाति; तथापि स्मर्त्तंवाऽसौ न द्रष्टा । अथ द्रष्टृस्मर्तृखरूपे विविक्ते भातस्तथा सति तयोर्भेद इति नैकत्वम् । तथाहि । द्रष्टृस्वरूपं दृग्विषयावभासि प्रतिभाति, स्मर्तृस्वरूपमपि पुंसः स्मृतिविषयमवतीर्णमवभाति: तत्कुतः पूर्वापरयोर्जातिरूपयोः संधानम् ? यत्पुनरुक्तम्। स्मरतः पूर्वदृष्टार्थानुसंधानादुत्पद्यमाना मतिचक्षुः संबद्धले प्रत्यक्षमिति । एतदप्यसंं । नेन्द्रियमतिः स्मृतिगोचरपूर्वरूपग्राहिणी, तत्कथं सा तत्संघानमात्मसात्करोति । पूर्वदृष्टसंधानं हि तत्प्रतिभासनं, तत्प्रतिभाससंबन्धे चेन्द्रियमतेः परोक्षार्थग्राहित्वात्परिस्फुटप्रतिभासनमसन्निहितविषयग्रहणं च तत्कुतस्तयोरैक्यम् ? | अथ परोक्षग्रहणं स्वात्मना नेन्द्रियमतिः संस्पृशति, एवं तर्हि तद्विविक्ता इन्द्रियमतिरिति कथं तत्संघायिका सामग्री अभ्युपेयते ? । यदि च स्मृतिविषयस्वभावतया दृश्यमानोऽर्थः प्रत्यक्षबुद्धिभिरवगम्यते । तथा सति स्मृतिगोचरः पूर्वस्वभावो वर्त्तमानतया भातीति विपरीतख्यातिः सर्वे दर्शनं भवेत् । अथ यत्तदा तत्राविद्यमानमर्थमवैति ज्ञानं तत्र विपरीतख्यातिः । प्रत्यक्षप्रतीतिस्तु पूर्वसंधानादप्युपजाय