________________
तत्त्वबोधविधायिनी व्याख्या। रावभासः। यदि तु सोऽपि तव्यवस्थाकारी स्यात्, तथा सति हृदि परिवर्त्तमानवपुषः सुखादेरपि प्रतिभासाहहिस्तव्यवस्था स्यात् । तथा च सुखाद्यात्मकाः शब्दादय इति साङ्ख्यदर्शनमेव स्यात् । अथ सुखादिराकारो बाह्यरूपतया न प्रतिभातीति न बहिरसौ जातिरपि, तर्हि न बहीरूपतया प्रतिभातीति न बहीरूपाऽभ्युपगन्तव्या। यतःकल्पनामतिरपि दर्शनदृष्टमेव घटादिरूपं पहिरुल्लिखन्ती, तद्रिं चान्तः प्रतिभाति; नतु तद्व्यतिरिक्तवपुषं जातिमुद्द्योतयति। तन्न तदवसेयाऽपि बहिर्जातिरस्ति। तैमिरिकज्ञाने बहिः प्रकाशमानवपुषोऽपि हि केशोण्डुकादयो न तथाऽभ्युपेयन्ते, बाध्यमानज्ञानविषयत्वात् । जातिस्तु न बहीरूपतया कचिदपि ज्ञाने प्रतिभातीति कथं सा सत्त्वाभ्युपगमविषया ?। बुद्धिरेव केवलं घटपटादिषु प्रतिभासमानेषु सत्सदिति तुल्यतनुराभाति यदि, तर्हि न बाह्या जातिरस्ति, बुद्धिरपि कथमेकरूपा प्रतिभाति ?। नहि बहिर्निमित्तमन्तरेण तदाकारोत्पत्तिमती सा युक्ता। ननु केनोच्यते बहिनिमित्तनिरपेक्षा जातिमतिरिति, किन्तु बहिर्जातिर्न निमित्तमिति, बाह्यास्तु व्यक्तयः काश्चिदेव जातिबुद्धेनिमित्तम् । ननु यदि व्यक्तिनिबन्धनाऽनुगताकारा मतिः, तथा सति यथा खण्डमुण्डव्यक्तिदर्शने गौगौरिति प्रतिपत्तिरुदेति, तथा गिरिशिखरादिदर्शनेऽपि गौगौरित्येतदाकारा प्रतिपत्तिर्भवेत्। व्यक्तिभेदाविशेषात् । तद्युक्तम् । भेदाविशेषेऽपि खण्डमुण्डादिव्यक्तिषु गौ?रित्याकारा मतिरुदयमासादयन्ती समुपलभ्यत इति ता एव तामुपजनयितुं समर्था इत्यवसीयते, न पुनर्गिरिशिखरादिषु गौौरिति मतिर्दृष्टेति न ते तन्निबन्धनं, यथा वा आमलकीफलादिषु यथाविधानमुपयुक्तेषु व्याधिविरतिलक्षणं फलमुपलभ्यत इति तान्येव तद्विधौ समर्थानीयवसीयते । भेदाविशेषेऽपि न पुनस्त्रपुषदध्यादीनि । अथ भिन्नेष्वपि भावेषु सत्सदिति मतिरस्ति, विभिन्नेषु च भावेषु यदेकत्वं तदेव जातिः । तत्रोच्यते । तदेकत्वं घटपटादिषु किमन्यत् , उतानन्यत्। न तावदन्यत् । तस्याप्रतिभासनादित्युक्तेः। नाप्यनन्यत् । एकरूपाप्रतिभासनात् । न हि घटस्य पटस्य चैकमेव रूपं प्रतिभाति । सर्वात्मना प्रतिद्रव्यं भिन्नरूपदर्शनात्। तस्मादप्रतीतेरभिन्नाऽपि जाति स्ति; बुद्धिरेव तुल्याकारप्रतिभासा सत्सदिति, शब्दश्च श्यत इति तदन्वय एव युक्तः, नजात्यन्वयः। तस्या