________________
११४
सम्मतिताख्यप्रकरणस्यपरिज्ञाने कथं जैमिनिरन्यो वा वेदार्थज्ञत्वेन निश्चीयते । तदनिश्चये च कथं तद्व्याख्यातार्थानुसरणादमिहोत्रादावनुष्ठाने प्रवृत्तिरिति यत्किञ्चिदेतत् सर्वज्ञोऽयमिति ह्येतत्' इत्यादि। तदेवं सर्वज्ञसद्भावग्राहकस्य प्रमाणस्य ज्ञत्वप्रमेयत्ववचनविशेषत्वादेर्दर्शितत्वात् तदभावप्रसाधकस्य च निरस्तत्वात् ; ये बाधकप्रमाणगोचरतामापन्नास्तेऽसदितिव्यवहर्त्तव्या इति प्रयोगहेतोरसिद्धत्वात् ; ये तुनिश्चितासंभवद्वाधकप्रमाणत्वे सति सदुपलम्भकप्रमाणगोचरास्ते सदिति व्यवहर्त्तव्याः, यथोभयवाद्यप्रतिपत्तिविषया घटादयः, तथाभूतश्च सर्ववित् इति भवत्यतः प्रमाणात्सर्वज्ञव्यवहारप्रवृत्तिरिति।अथापि स्यात् स्वविषयाविसंवादिवचनविशेषस्य तद्विषयाविसंवादिज्ञानपूर्वकत्वमात्रमेव भवता प्रसाधितम्। नचैतावताऽनन्तार्थसाक्षात्कारिज्ञानवान् सर्वज्ञः सिद्धिमासादयति । सकलसूक्ष्मादिपदार्थसार्थसाक्षात्कारिज्ञानविशेषपूर्वकत्वे हि वचनविशेषस्य सिद्धे तज्ज्ञानवतः सर्वज्ञत्वसिद्धिः स्यात् । नच तथाभूतज्ञानपूर्वकत्वं वचनविशेषस्य सिद्धम्। अनुमानादिज्ञानादपि स्वविषयाविसंवादिवचनविशेषस्य संभवात्। नच तथाभूतज्ञानवान् सर्वज्ञो भवद्भिरभ्युपगम्यत इत्येतद् हृदि कृत्वाऽऽह सूरिः। “कुसमयविसासणम्” इति। सम्यक् प्रमाणान्तराविसंवादिवेनेयन्ते परिच्छिद्यन्ते इति समयाः, नष्टमुष्टिचिन्तालाभालाभसुखासुखजीवितमरणग्रहोपरागमन्त्रौषधशक्त्यादयः पदार्थाः; तेषां विविधमन्यपदार्थकारणत्वेन कार्यत्वेन चानेकप्रकारं शासनं प्रतिपादकम् ; यतः शासनं कुः पृथ्वी तस्या इवायमभिप्रायः। ज्ञवप्रमेयवादेरनेकप्रकारस्य प्रतिपादितन्यायेन सर्वज्ञसत्त्वप्रतिपादकस्य हेतोः सद्भावेऽपि तत्कृतत्वेन शासनप्रामाण्यप्रतिपादनार्थ सर्वज्ञोऽभ्युपगम्यते, तस्य चान्यतो हेतोःप्रतिपादनेऽपि तदागमप्रणेतृलं हेत्वन्तरात्पुनः प्रतिपादनीयं स्यादिति हेत्वन्तरमुत्सृज्य प्रतिपादनगौरवपरिहारार्थ वचनविशेषलक्षण एव हेतुस्त
सद्भावावेदक उपन्यसनीयः । स चानेन गाथासूत्रावयवेन सूचितः । अतएव संस्कृत्य हेतुः कर्त्तव्यः। तथाहि।यो यद्विषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वको वचनविशेषः, स तत्साक्षात्कारिज्ञानविशेषप्रभवः। यथाऽस्मदादिप्रवर्तितः पृथ्वीकाठिन्यादिविषयस्तथाभूतो वचनविशेषः।नष्टमुष्टिविशेषादिविषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वकवचनविशेषश्वायं शासनलक्षणोऽर्थ इति । न