________________
११३
तत्त्वबोधविधायिनी व्याख्या । द्वर्त्तमानकालसंबन्धित्वम् । एवमतीतादेस्तज्ज्ञानावभासित्वे वर्तमानत्वमेवेति वर्तमानमात्रपदार्थज्ञानवानस्मदादिवन्न सर्वज्ञः स्यात् । किंच।अतीतादेस्तज्ज्ञानकालेऽसन्निहितत्वेन तज्ज्ञानेऽप्रतिभासः। प्रतिभासे वा स्वज्ञानसंबन्धित्वेन तस्य ग्रहणात् तज्ज्ञानस्य विपरीतख्यातिरूपताप्रसक्तिः । एतदसंबद्धम् । यतो यथाऽस्मदादीनामसन्निहितकालोऽप्यर्थः सत्यस्वप्नज्ञाने प्रतिभाति। नचासन्निहितस्य तस्यातीतादिकालसंबन्धिनो वर्तमानकालसंबन्धित्वं; नापि वकालसंबन्धित्वेन सत्यखप्नज्ञाने तस्य प्रतिभासनात् तद्राहिणो ज्ञानस्य विपरीतख्यातित्वम् । यत्र ह्यन्यदेशकालोऽर्थोऽन्यदेशकालसंबन्धित्वेन प्रतिभाति सा विपरीतख्यातिः । अत्र त्वतीतादिकालसंबन्ध्यतीतादिकालसंबन्धित्वेनैव प्रतिभातीति न तत्प्रतिभासिनोऽर्थस्य तत्कालसंबन्धित्वेन वर्तमानत्वम् ; नापि तद्ग्राहिणो विज्ञानस्य विपरीतख्यातित्वम्। तथा सर्वज्ञज्ञानेऽपि यदाऽतीतादिकालोऽर्थोऽतीतादिकालसंबन्धित्वेन प्रतिभाति, तदा कथं तस्यार्थस्य वर्तमानकालसंबन्धित्वम् ; कथं वा तज्ज्ञानस्य विपरीतख्यातित्वमिति । यथा वा विशिष्टमन्त्रसंस्कृतचक्षुषामङ्गुष्ठादिनिरीक्षणेनान्यदेशा अपि चौरादयो गृह्यमाणा न तद्देशा भवन्ति, नापि तज्ज्ञानं तद्देशादिसंबन्धित्वमनुभवति; तथा सर्वविद्विज्ञानमप्यसन्निहितकालं यद्यर्थमवभासयति, स्वात्मना तत्कालसंबन्धित्वमननुभवदपि,तदा को विरोधः; कथं वा तस्यातीतादेरर्थस्य तज्ज्ञानकालत्वमिति । नच सत्यस्वप्नज्ञानेऽप्यतीताद्यर्थप्रतिभासे समानमेव दूषणमिति न तदृष्टान्तद्वारेण सर्वज्ञज्ञानमतीताद्यर्थग्राहकं व्यवस्थापयितुं युक्तमिति वक्तुं युक्तम् । अविसंवादवतोऽपि ज्ञानस्य विसंवादविषये विप्रतिपत्त्यभ्युपगमे, स्वसंवेदनमात्रेऽपि विप्रतिपत्तिसद्भावादतिसूक्ष्मेक्षिकया तस्यापि तत्स्वरूपत्वासंभवात्सर्वशून्यताप्रसङ्गात् ; तन्निषेधस्य च प्रतिपादयिष्यमाणत्वादतो न युक्तमुक्तम् , प्रतिपाद्यापेक्षयेत्यादि न भ्रान्तज्ञानवान् सर्वज्ञः कल्पयितुं युक्त इति पर्यन्तम् । यदप्युक्तम् । भवतु वा सर्वज्ञस्तथाप्यसौ तत्कालेऽप्यसर्वज्ञातुं न शक्यते इत्यादि । तदप्यसंगतम् । यतो यथा सकलशास्त्रार्थापरिज्ञानेऽपि व्यवहारिणा सकलशास्त्रज्ञ इति कश्चित्पुरुषो निश्चीयते; तथा सकलपदार्थापरिज्ञानेऽपि यदि केनचित् कश्चित् सर्वज्ञत्वेन निश्चीयते, तदा को विरोधः। युक्तं चैतत् । अन्यथा युष्माभिरपि सकलवेदा