________________
११५
तत्त्वबोधविधायिनी व्याख्या । चात्राविसंवादिलं वचनविशेषत्वलक्षणस्य हेतोर्विशेषणमासद्धम् । नष्टमुष्ट्यादीनां वचनविशेषप्रतिपादितानां प्रमाणान्तरतस्तथैवोपलब्धेरविसंवादसिद्धेः । योऽपि क्वचिद्वचनविशेषस्य तत्र विसंवादो भवता परिकल्प्यते; सोऽपि तदर्थस्य सम्यगपरिज्ञानात सामग्रीवैकल्यान्न पुनर्वचनविशेषस्यासत्यार्थत्वात् । नच सामग्रीवैकल्यादेकनासत्यार्थत्वे सर्वत्र तथात्वं परिकल्पयितुं युक्तम् । अन्यथा प्रत्यक्षस्यापि द्विचन्द्रादिविषयस्य सामग्रीवैकल्येनोपजायमानस्यासत्यत्वसंभवात् समग्रसामग्रीप्रभवस्याप्यसत्यत्वं स्यात् । अथाविकलसामग्रीप्रभवं प्रत्यक्षं विकलसामग्रीप्रभवात्तस्माद्विलक्षणमिति नायं दोषः। तत्रापि समानम्। तथाहि । सम्यगज्ञाततदर्थाद्वचनाद् यन्नष्टमुष्ट्यादिविषयं विसंवादिज्ञानमुत्पद्यते तत्सम्यगवगततदर्थवचनोद्भ. वाद्विलक्षणमेव। यथा च विशिष्टसामग्रीप्रभवस्य प्रत्यक्षस्य न कचिद् व्यभिचार इति तस्याविसंवादित्वम् ; तथाऽवगतसम्यगर्थवचनोद्भवस्यापि नष्टमुष्टयादिविषयवि. ज्ञानस्येति सिद्धमत्राविसंवादित्वलक्षणं विशेषणं प्रकृतहेतोः। नाप्यलिङ्गपूर्वकत्वं विशेषणमसिद्धम् । नष्टमुष्ट्यादीनामस्मदादीन्द्रियाविषयत्वेन तल्लिङ्गत्वेनाभिमतस्याप्यर्थस्यास्मदाद्यक्षाविषयत्वान्न तत्प्रतिपत्तिः । प्रतिपत्तौ वाऽस्मदादीनामपि तल्लिङ्गदर्शनाहचनविशेषमन्तरेणापि ग्रहोपरागादिप्रतिपत्तिः स्यात् । नहि साध्यव्याप्त. लिङ्गनिश्चयेऽग्न्यादिप्रतिपत्तौ वचनविशेषापेक्षा दृष्टा; न भवति चास्मदादीनां वचनविशेषमन्तरेण कदाचनापि प्रतिनियतदिक्प्रमाणफलाद्यविनाभूतग्रहोपरागादिप्रतिपत्तिरिति तथाभूतवचनप्रणेतुरतीन्द्रियार्थविषयं ज्ञानमलिङ्गमभ्युपगन्तव्यमित्यलिङ्गपूर्वकत्वमपि विशेषणं प्रकृतहेतोनीसिद्धम् । नाप्ययमुपदेशपरम्परयाऽतीन्द्रियार्थदर्शनाभावेऽपि प्रमाणभूतः प्रबन्धेनानुवर्तत इत्यनुपदेशपूर्वकलविशेषणासिद्धिरिति वक्तुं युक्तम् । उपदेशपरम्पराप्रभवत्वे नष्टमुष्टयादिप्रतिपादकवचनविशेषस्य वक्तुरज्ञानदुष्टाभिप्रायवचनाकौशलदोषैः श्रोतुर्वा मन्दबुद्धित्वविपर्यस्तबुद्धित्वगृहीतविस्मरणैः प्रतिपुरुषं हीयमानस्यानादौ काले मूलतश्विरोच्छेद एव स्यात् । तथाहि । इदानीमपि केचित् ज्योतिःशास्त्रादिकमज्ञानदोषादन्यथोपदिशन्त उपलभ्यन्ते; अन्ये सम्यगवगच्छन्तोऽपि दुष्टाभिप्रायतया; अन्ये वचनदोषादव्यक्तमन्यथाचेति। तथा श्रोतारोऽपि कचिन्मन्दबुद्धित्वदोषादुक्तमपि यथावन्नावधार