________________
जैनतर्कभाषा
पृ. ६. पं. १९ अर्थावग्रहस्तु - शब्दोऽयमित्यवान्तरशब्दत्व लक्षण सामान्यविशेषग्राहिज्ञानं पुनः ।
८४
पृ. ६. पं. १९ इतरव्यावृत्तवस्तुस्वरूपग्राही- शब्देतररूपादिव्यावृत्तशब्दात्मक वस्तुस्वरूपग्राही ।
पृ. ६. पं. २० इति - एवमभ्युपगमेन ।
पृ. ६. पं. २० न सूत्रानुपपत्ति:- " तेणं सद्देति उम्महिए" इति सूत्रस्य शब्दोऽयमित्यवग्रहेण शब्द इत्यनगृहीत इत्यर्थकस्य नानुपपत्तिः । अर्धावग्रहे शब्दत्वेन शब्दभानस्य स्वीकारात्तथा तदर्थस्य सम्भवादित्याशयः । भवदभ्युपगतमालोचनाज्ञानं व्यञ्जनाच महात्पूर्वं तत्पश्चाद्व्यञ्जनावग्रहरूपं वा न सम्भवति, प्रकारान्तरेण तत्सम्भवश्चासम्भावित एवेति न तदुपगमो ज्यायानिति प्रतिक्षिपति ।
पृ. ६. पं. २० तदसत्; यत आलोचनं व्यञ्जनावग्रहात् पूर्व स्थात्, पश्चाद्वा, स एव वा अथवा व्यञ्जनावग्रह एवालोचनाज्ञानम् ।
पृ. ६. पं. २१ नाद्य इति - व्यञ्जनावग्रहात्पूर्वमालोचनाज्ञानमिति प्रथमकल्पो न युक्त इत्यर्थः । व्यञ्जनावग्रहात्पूर्वं शब्दादिपरिणतद्रव्यनिकुरुम्बात्मकार्थेन सह श्रोत्रादीन्द्रियलक्षणव्यञ्जनस्य सम्बन्धसद्भावे व्यञ्जनवग्रह एव स्यान्नालोचनम्, उक्तसम्बन्धस्याभावे चाव्यक्तसामान्य ग्रहणलक्षणालोचनाज्ञानस्य कारणाभावादेव न सम्भव इत्याह ।
पृ. ६. पं. २१ अर्थव्यञ्जनसम्बन्धं विना तदयोगात्-आलोचनाज्ञानासम्भवात् ।
पृ. ६. पं. २२ न द्वितीय इति - व्यञ्जनावग्रहात्पश्चादालोचनाज्ञानमिति द्वितीयपक्षोऽपि न युक्त इत्यर्थः । व्यञ्जनावग्रहार्थावग्रहयोरन्तरालकालस्य ताभ्यां विमुक्तस्याभावाद्वयञ्जनाग्रहान्त्यसमयेऽर्थावग्रहसद्भाव स्यैवोपगमेन न तदानीमालोचनाज्ञानसम्भव इत्याह ।
पृ. ६. पं. २२ व्यञ्जनाच ग्रहान्त्यसमपेऽर्थाविगहस्यैवोत्पादादालोचनानवकाशात् । न तृतीयः - इति- व्यञ्जन । वग्रह एवालोचनाज्ञानमिति