________________
१. प्रमाणपरिच्छेदः ।
तृतीयविकल्पोऽपि न सम्भवतीत्यर्थः, व्यञ्जनावग्रहस्यैवालोचनाज्ञानमिति नामकरणे न नो विवादः परिभाषाया अपर्यनुयोज्यत्वात् परं तस्यार्थविषयकत्वाभावादर्थालोचनत्वन्न सम्भवतीत्याह ।
,
८५
पृ. ६. पं. २४ व्यञ्जनावग्रहस्यैवेति-यदि च व्यञ्जनावग्रहतयाऽभ्युपगम्यमानमालोचनाज्ञानं सामान्यमात्रविषयकमभ्युपेयते तदाऽपि तदनन्तरमेव शोऽयमिति शद्ध एवैष इति सामान्यविशेषस्वरूपशद्वत्वस्य निश्चयरूपोऽर्थावग्रहो भवदभिमतो न स्यादेव, ईहित एवार्थे विशेषनिश्वयसम्भवो नानीहिते । न चालोचनानन्तरक्षणे युगपदेवेोक्तार्थावग्रहौ स्यातामिति कल्पना युक्ता, अर्थावग्रहकालस्यैकसमयत्वात् ईहाकालस्यासङ्ख्येयसमयत्वात् शद्धोऽयमित्यवग्रहस्य च वस्तुतोऽपायरूपत्वेन तत्कालस्येहासहख्येयकालात्पृथगेवास ङ्ख्येयकालत्वादित्याशयेनाह ।
,
पृ. ६. पं. २५ किञ्चेति- अर्थावग्रहस्यैकसामयिकत्वमीहायाश्चासङ्ख्येयसमयमानत्वमतो न युगपत्तयोः सम्भवः, अपि च भवदुपगतोऽर्थावग्रहो निश्चयरूपः, ईहा चानिश्चयरूपा न चैकस्मिन्नर्थे एकदैवैकपुरुषस्य निश्चयानिश्चययौः इत्यपि बोध्यम् । ननु क्षिप्रमत्रगृह्णातीत्यादिना क्षित्र - चिर- बहु - अबहु-बहुविध - अबहुविधाऽनिश्रित - निश्रिता- सन्दिग्ध - सन्दिग्ध-ध्रुवा --ऽध्रुवत्वलक्षणद्वादशविशेषणैविंशेषिताः क्षिप्रावग्रहणादिस्वरूपा द्वादशार्थावग्रहास्तत्त्वार्थे प्ररूपिताः, ततश्च नैकसामयिक एवार्थावग्रहः किन्त्वसङ्ख्येयसमयमानोऽप्यसाविति ईहया समसमयमानत्वसम्भवेन समकालमुत्पत्तिर्विशेषविषयकत्वञ्च सम्भविष्यतीति शङ्कते ।
पृ ६. पं. २७ नन्ववग्रहेऽपि - अर्थाविग्रहेऽपि, अपिनेहाया असङ्ख्येयमानत्वस्याम्रेडनम्, बहुबहुविधादिग्राहकस्य विशेषविषयक निश्चयरूपस्यैव सम्भवेन तथाविधस्येहानन्तरभावित्वेनापायत्वमेव, उक्तविशेषणकापायकारणत्वादेवावग्रहे उपचारमाश्रित्य क्षिप्रावग्रहत्व चिरावग्रहणत्वादिना तच्चार्थादौ द्वादशविधत्वप्ररूपणं, कारणेऽप्यवग्रहे सामान्यग्राहिणि विशेषग्राहिकार्यापायस्वरूपं शक्त्या - त्मना योग्यतयाऽस्तीति तथाप्ररूपणन्नासङ्गतम्, अन्यथाऽशेषविशेषापरामृष्टसामान्यग्राहिण्यर्थावग्रहेऽनुपचरितस्य विशेषविषयकत्वनियतस्योक्तद्वादशविधत्वस्यासम्भवादिति समाधत्ते ।