________________
जैनतर्कभाषा। पृ. ७. पं. १ न; तत्त्वतः-परमार्थतः । पृ. ७. पं. १ तेषाम्-क्षिप्रेतरादिभेदानाम् । पृ. ७. पं. १ कारणे-क्षिप्रेतरादिग्रहणस्वभावापायकारणेऽर्थावग्रहे ।।
पृ. ७. पं. १ कार्योपचारमाश्रित्य-कार्यस्य क्षिप्रेतरादिग्रहणखभावापायस्य, उपचारं तद्गतधर्मस्य स्वरूपयोग्यतयाऽर्थावग्रहे कल्पितं सत्त्वम् अवलम्ब्य क्षिपग्रहणत्वादिकमनुपचरितमेव कुतो नार्थावग्रहस्येत्याकाङ्क्षायामाह ।
पृ. ७. पं. २ अविशेषविषय इति-विशेषविषयकत्वविकले सामान्यमात्रग्राहिण्यवग्रह इति यावत् , मुख्यतोऽप्यर्थावग्रहे क्षिप्रेतरादिभेदत्वमुपपादयितुं कल्पान्तरमाह।
पृ. ७. पं. ४ अथवा अवग्रहः-अर्थावग्रहः । पृ. ७. पं. ४ आद्यः-नैश्चयिकोऽर्थावग्रहः ।
पृ. ७. पं. ५ सामान्यमात्रग्राही-रूपादिभ्योऽव्यावृत्तस्याव्यक्तस्य शद्वादिवस्तुसामान्यस्य ग्राहकः ।
पृ. ७. पं. ५ द्वितीयश्च-व्यावहारिकोऽर्थावग्रहः पुनः ।
पृ. ७. पं. ५ विशेषविषयः-शद्धादिवस्तुसामान्यसत्तालक्षणमहासामान्यावान्तरशब्दत्वादिसामान्यविशेषविषयकः । नन्वव्यक्तशब्दादिवस्तुसामान्य. ग्राह्यवग्रहस्य नैश्चयिकस्यावग्रहत्वं युक्तं, यतस्तेनावगृहीते सामान्ये किमयं शब्दोऽशब्दो वेतीहाप्रवृत्यनन्तरं शब्द एवायमित्यपायस्य सम्भवात् , शब्द एवायमिति व्यावहारिकार्थावग्रहानन्तरन्त्वीहावभावात्कथमस्यार्थावग्रहत्वमित्यत आह ।
पृ. ७. पं. ५ तदुत्तरमिति-शब्दोऽयमिति व्यावहारिकार्थावग्रहानन्तरमित्यर्थः।
पृ. ७. पं. ५ उत्तरोत्तरेति-शब्दोऽयमिति निश्चये जातेऽपि किमयं शब्द