________________
१. प्रमाणपरिच्छेदः ।
शाङ्खः शार्ङ्ग वेति सन्दि प्रायः शाङ्खनानेन भवितव्यमितीहा प्रवर्तते, ततः शाङ्ख एवायमित्येवं निश्चयात्मा पायो भवति एतस्मात्कारणाद्युज्यते शब्दोऽयमि. ति ज्ञानस्यार्थावग्रहत्वम्, एवं शाङ्ख एवायमिति निश्रयानन्तरं देवदत्तेन यज्ञदत्तेन dissoninस्य शङ्खस्य शब्दोऽयमिति सन्दिद्य प्रायो देवदत्ताध्मातशङ्खशब्देनानेन भवितव्यमितीहा प्रवर्त्तते, ततो देवदत्ता मातशङ्खशब्द एवायमिति निर्णयात्मकोsपायो भवतीति तदपेक्षया शाङ्ख एवायमित्यस्यार्थावग्रहत्वमित्येवं यद्यद्धर्मापेक्षया विशेषधर्म सम्भवति तत्तद्धर्मग्रहणं भविष्येहापाय पूर्वकालीनमवग्रहस्वरूपं स्वविषयगताव गृहीत सामान्यधर्मापेक्षया विशेषावगाहित्वादपायस्वरूपश्च यदपायविषयीभूतधर्मापेक्षया परतो विशेषधर्मा न सन्ति तत्रानन्तरसीहापायामवृत्तेरसोऽप्ययाय एव न व्यावहारिकार्थावग्रह इति भावः ।
"
२७
पृ. ७. पं. ६ अन्यथा - शब्द एवायमिति निश्चयस्य नैश्वयिकावग्रहगृहीते सामान्ये ईहिते चानन्तरभावित्वेनापायरूपस्य व्यावहारिकावग्रहत्वानभ्युपगमे । पृ. ७. पं. ६ अवग्रहं विना - अर्थावग्रहं विना |
पृ. ७. पं. ७ ईहानुत्थानप्रसङ्गात् किमयं शब्दः शाङ्खः शार्ङ्ग वेत्या - द्युत्तरविशेषाकाङ्क्षणरूपानुत्पादप्रसङ्गात् । ईहाम्प्रति अवग्रहस्य कारणत्वात्कारणाभावे कार्यासम्भवादिती हा कार्यान्यथानुपपच्याऽवग्रहोऽवश्यमेव कल्पनीय इत्यन्यस्यार्थावग्रहस्य प्रकृतेऽसम्भवाच्छन्दोऽयमित्यपाय एव तत्रार्थावग्रह इति ।
पृ. ७. पं. ७ अत्रैव - व्यावहारिकार्थावग्रह एव ।
पृ. ७, पं. ७ अत एवेति - प्राथमिकापायस्य व्यावहारिकार्थावग्रहत्वाभ्युपगमादेवेत्यर्थः
ः ।
पृ. ७. पं. ७ उपर्युपरीति - प्रथमापायानन्तरं तद्रूपव्यावहारिकार्थावग्रहगृहीते शब्दत्वरूपे महासामान्यसत्त्वापेक्षया विशेषस्वरूपेऽपि शाङ्खत्वाद्युत्तरविशेषापेक्षया सामान्यस्वरूपे ईहातोऽपायात्मा शाङ्खोऽयमिति ज्ञानम्भवति, तदनन्तरं तद्रूपव्यावहारिकार्थावग्रहगृहीते शाङ्खत्वरूपे शब्दत्वलक्षणसामान्यापेक्षया विशेषरूपेऽपि देवदत्ताध्मातशङ्खप्रभवत्वाद्युत्तर विशेषापेक्षया सामान्यरूपे ईहातोऽपायात्मा देवदत्ता मातशङ्खप्रभव एवायमिति ज्ञानम्भवतीत्येवं क्रमेणोपर्युपरिज्ञान