________________
जेनतकभाषा धारा प्रवृत्तिलक्षणज्ञानसन्ततिरूपव्यवहारः सङ्गच्छते, प्रथमापायस्यावग्रहरूपत्वाभावे च तद्विषयस्य विशेषस्यावगृहीतत्वाभावान्न तत्रेहा, तदभावाच न द्वितीयापायः, एवं न तृतीयापाय इत्युक्तक्रमिकज्ञानसन्तानलक्षणव्यवहारविलोप एव प्रसज्येतेति भावः।
॥ इत्यर्थावग्रहनिरूपणम् ॥
॥ अथ ईहाया निरूपणम् ॥ अथ ईहानिरूपयति ।
पृ. ७. पं. ९ अवगृहीतेति-अत्र ईहेति लक्ष्यनिर्देशः, अवगृहीतविशेषाकामणमिति लक्षणनिर्देशः । अत्र अवगृहीतेत्यत्रावग्रहतया नैश्चयिकार्थावग्रहणे तद्विषयीभूतं रूपाद्यव्यावृत्ताव्यक्तशब्दादिवस्तुमात्रमवगृहीतं, तत्र विशेषस्य महासामान्यसत्त्वापेक्षया शद्धत्वादिलक्षणावान्तरसामान्यरूपस्य विशेषस्याकाङ्क्षणं विमर्शो मीमांसेति यावत् , तच्च किमिदं वस्तु मया गृहीतं शद्धोऽशद्रो वा रूपादिरिति, एवम्भूताकाङ्क्षणं नैश्चयिकावग्रहानन्तरमीहा भवति । व्यावहारिकार्थावग्रहग्रहणे तु शब्दोऽयमित्यवग्रहविषयीभूतं शद्धत्वं शाङ्खत्वाद्यपेक्षया सामान्यं, तत्र विशेषस्य शद्धत्वापेक्षया शाङ्खत्वादेराकाङ्क्षणं-कोऽयं शद्धः १ शाङ्खः शाङ्गो वेति, एतच्च व्यावहारिकेहास्वरूपमवगन्तव्यम् । अवगृहीतेत्यादिलक्षणपर्यवसितार्थमादाय ईहालक्षणमावेदयति ।
पृ. ७. पं. ९ व्यतिरेकेति-विमर्शेऽन्वयधर्मो विधिरूपो व्यतिरेकधर्मश्च तदभावरूपस्तदभावव्याप्यरूपश्चावभासते, तत्र यादृशबोधो व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मस्य सङ्घटनपरः स बोध ईहेत्यर्थः । उदाहरति । ___ पृ. ७. पं. १० यथा-श्रोत्रग्राह्यत्वादिनेति-श्रोत्रग्राह्यत्वादिरसाधारणो धर्मः शद्धस्यैव, रूपादौ तु स नास्तीति शब्दत्वाभावस्य तद्वयाप्यस्य रूपादित्वादेर्व्यतिरेकधर्मस्य निराकरणमन्वयधर्मस्य शब्दत्वस्य सङ्घटनं श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन भवितव्यमितिबोधेन क्रियत इति स बोध ईहा, इयं चेहा नैश्चयिकावग्रहस्य सामान्यमात्रग्राहिणोऽनन्तरम्भवतीति । शब्दोऽयमिति विशेपावगाहिनो व्यावहारिकावग्रहस्यानन्तरं येहा समुद्भवति तामुदाहरति ।