________________
१. प्रमाणपरिच्छेदः । पृ. ७. पं, ११ मधुरत्वादीति-मधुरत्वादिरसाधारणधर्मः शाङ्खादिशब्दविशेषस्यैव; न स शाङ्गादिशब्दविशेषेऽस्तीति तेन धर्मेण शाङ्खादित्वाभावस्य तद्वयाप्यस्य शाईत्वादेर्व्यतिरेकधर्मस्य निराकरणमन्वयधर्मस्य शाङ्खत्वादेः सङ्घटनं मधुरत्वादिना प्रायोऽनेन शाङ्खादिना भवितव्यमिति बोधेन क्रियत इति स बोध ईहेत्यर्थः । संशयस्य विधिव्यतिरेकयोर्दोलायमानतया समभावेन प्रवृत्तिः, ईहायाश्च व्यतिरेकापाकरणेन अन्वयधर्मसङ्घटनद्वारा निश्चयात्मकापायाभिमुखत्वेन प्रवृत्तत्वात्संशया द इत्याह ।
पृ. ७. पं. १२ न चेयं-ईहानिषेधे हेतुमाह । पृ. ७. पं. १२ तस्येति-संशयस्येत्यर्थः ।
पृ. ७. पं. १२ एकत्रेति-एकत्र धर्मिणि विरुद्धनानाधर्मप्रकारकं ज्ञानं संशय इति तस्य व्यतिरेकेऽन्वयधर्मे च दोलायमानतैव, न तु निश्चयाभिमुखत्वमिति । पृ. ७. पं. १३ अस्याश्च-ईहायाः पुनः ।
। इति ईहानिरूपणम् ।
॥ अथ अपायनिरूपणम् ॥ मतिज्ञानस्य तृतीयभेदमपायं निरूपयति ।
पृ. ७. पं. १५ ईहितस्येति-अत्र ईहितस्य विशेषनिर्णय इति लक्षण निर्देशः, अपाय इति लक्ष्यनिर्देशः । श्रोत्रग्राह्यत्वादिनेहितस्येहया विषयीकृतस्य निश्चयाभिमुखीकृतस्य विशेषनिर्णयः-श्रोत्रग्राह्यत्वादितः शब्द एवाऽयं न रूपादिरिति निश्चयात्मको यो बोधः सोऽपाय इत्यर्थः । उदाहरति ।
पृ. ७. पं. १५ यथा “शब्द एवायमिति"-निश्चयावग्रहानन्तरभाव्यपायस्वरूपकथनमेतत् ।
पृ. ७. पं. १६ शाल एवायमिति-वेति-वा अथवा, शास एवायमितिनिर्णयोऽपायः । अनेन व्यावहारिकार्थावग्रहानन्तरभावी अपाय उक्तः । अत्र
१२