________________
जैनतर्कभाषा। ईहितस्य मधुरत्वादिना प्रायः शार्केनानेन भवितव्यमित्येवमीहया विषयीकृतस्य निश्चयाभिमुखीभूतस्य मधुरस्निग्धत्वादिगुणत्वात् शङ्खस्यैवाऽयं शब्दो न शाङ्गस्य इति यो विशेषनिर्णयः सोऽपाय इत्येवं लक्षणानुगमो विधेयः ।
॥ इति अपायनिरूपणम् ॥
॥ अथ धारणानिरूपणम् ॥ मतिज्ञानस्य चतुर्थ भेदं धारणाज्ञानं निरूपयति ।
पृ. ७. पं. १७ स एवेति-अत्र स एव दृढतमावस्थापन्न इति लक्षणनिर्देशः, धारणेति लक्ष्यनिर्देशः, दृढतमावस्थापन्नोऽपाय एव धारणेति कश्चिकालभवस्थितस्सन् दाढर्यभावमापन्नोऽपायो धारणेति यावत् , तां विभजते ।
पृ. ७. पं. १७ सा चेति-धारणा चेत्यर्थः, अविच्युत्यादीनां. क्रमेण लक्षणमुपदर्शयति ।
पृ. ७. पं. १८ तत्रेति-तेषु मध्य इत्यर्थः, एकार्थोपयोगसातत्या निवृत्तिरिति लक्षणम् अविच्युतिरिति लक्ष्यम् , अपायेन निश्चितेऽर्थे कियत्कालपर्यन्तमुपयोगसातत्येन वर्तते न तु तस्मानिवर्त्तते, अर्थादन्तराऽन्तरा तमर्थं परित्यज्य नान्यविषयकोपयोगो भवति । सैकार्थोपयोगसातत्यानिवृत्तिः अविच्युतिर्नामधारणायाः प्रथमभेद इत्यर्थः । स्मृतिनामकं धारणाया द्वितीय भेदं लक्षयति । ... पृ. ७. पं. १९ तस्यैवेति-अविच्युतिलक्षणा धारणा कियत्कालानन्तरं विषयान्तरसञ्चारादिना विनश्यति, परं तया धारणया वासनालक्षणः संस्कार आत्मनि स्मृतिहेतुराधीयते, तादृशसंस्कारवशातिरोहितस्यापि तस्यार्थोपयोगस्यैव कालान्तरे तदेवोल्लेखने यत्समुन्मीलनं प्रकटनं-उत्तरकालं तदेवेत्युल्लेखशालियज्ज्ञानमाविर्भवति तत् स्मृतिरूपा धारणेत्यर्थः । वासनारूपं तृतीयं धारणाभेदं लक्षयति ।
पृ. ७. पं. २० अपायाहित इति-यद्यपि संस्कार इत्येव वासनाया लक्षणं सम्भवति, तथापि क्रियाजनकवेगस्थितिस्थापकसंस्कारयोरपि संस्कारत्वात्तद्वयावृत्तये अपायाहित इति, अपायात्मकज्ञानस्यैवापाय इति नामान्तरं, तथा