________________
१. प्रमाणपरिच्छेदः ।
हर्तुं शक्यं, विशिष्टमतेरपि शब्दरूपधर्मिग्रहणे सत्येवोत्तरोत्तरक्रमिकबहुधर्मविशेषग्रहणस्य न्याय्यत्वात् प्रथमसमय एव बहुतरग्रहणस्य " न उण जाणइ के वेस सद्देत्ति ” सूत्रविरुद्धत्वादित्यभिप्रायेण तन्मतखण्डनमुपनिबध्नाति ।
"
पृ. ६. पं. १३ तन्नेति - उक्तमतं न समीचीनमित्यर्थः ।
पृ. ६. पं. १३ व्यक्ततरस्य - अतिपरिचितविषयस्य प्रमातुः ।
पृ. ६. पं. १३ व्यक्तशब्दज्ञानमतिक्रम्यापि - इति - जातमात्रस्य बालस्य प्रथमसमयेऽव्यक्तशब्दज्ञानं, तदतिक्रम्य परिचितविषयस्य जन्तोः यथा प्रथमसमय एव व्यक्तशब्दज्ञानं; तत्र यथा प्रथममव्यक्तशद्वज्ञानं ततो व्यक्तशब्दज्ञानमिति न क्रमः, किन्तु प्रथममेव व्यक्तशब्दज्ञानं, तथाऽतिपरिचितविषयस्य पटुतरमतेः प्रथमसमयएव व्यक्तशब्दज्ञानमतिक्रम्यापि शाङ्खत्वादिबहु विशेषग्रहः प्रसज्येतेत्यर्थः । उक्तापादनस्येष्टापत्तितया परिहरणं सूत्रविरोधेन निषेधति ।
८३
पृ. ६. पं. १४ न चेष्टापत्ति:, “ न पुनर्जानाति क एष शब्दः ' इति सूत्रावयवस्याविशेषेणेति - जातमात्र - परिचितविषय-परिचिततरप्रमातृसाधारण्येन, विशेषधर्मग्रहणे सामान्यधर्मिग्रहणस्य कारणत्वेन प्रथमं शब्दरूप - धर्मिग्रहणं विना तद्गतबहुविशेषग्रहणं विशिष्टमतेरपि प्रमातुर्न सम्भवतीत्याह ।
पृ. ६. पं. १६ प्रकृष्टमतेरपीति - विषयविषयिसन्निपातानन्तरं सामान्यमात्रग्रा हिदर्शनं भवति, तदनन्तरमवान्तरशब्दत्वादिसामान्यविशेषावग्राह्यर्थावग्रहो भवति, इति केचिदभ्युपगच्छन्ति, तन्मतं प्रतिक्षेप्तुमुपन्यस्यति ।
पृ. ६. पं. १८ अन्ये तु - आलोचनेति - " अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञान - सदृशं शुद्धवस्तुजम् " ॥ १ ॥ इति वचनात् निर्विकल्पकं ज्ञानमव्यक्तं सामान्यग्राहि आलोचनं, तत्पूर्वकं तदुत्तरकालीनमर्थावग्रहमाचक्षते कथयन्तीत्यर्थः ।
पृ. ६. पं. १८ तत्र - उक्तमते ।
पृ. ६. पं. १९ अव्यक्तसामान्यग्राहि-अवान्तरविशेषमात्राप्रतिभासि सामान्यग्राहि ।