________________
जनतर्कभाषा। पृ. ६. पं. ८ यदि च-एवं सति व्यञ्जनावग्रहस्यान्यक्तशद्वरूपार्थविषयकत्वेनार्थावग्रहत्वं स्यान्न व्यञ्जनावग्रहत्वमेवमपि व्यञ्जनावग्रहत्वेऽर्थावग्रहत्वेनाभिमतस्यापि व्यञ्जनावग्रहत्वं स्यादित्याह ।
पृ. ६. पं..९ सोऽपीति-व्यञ्जनावग्रहोऽपीत्यर्थः। ये च सर्वविशेषवि. मुखसामान्यमात्रलक्षणाव्यक्तग्रहणं प्रथमसमये तन्क्षणजातमात्रशिशोस्सङ्केतादिविकलस्य, सङ्केतादिपरिकर्मितमतेः परिचितविषयस्य तु प्रमातुःप्रथमशदश्रवणसमय एव विशेषविषयकमप्यर्थावग्रहणं भवति परिचितविषयप्रमातारमधिकृत्यैव "तेणं सद्देत्ति उग्गाहिए" इति सूत्रं शद्धस्तेनावगृहीत इत्यर्थकं प्रवृत्तं; तथा च शब्दोऽयमिति निश्चयात्मकावग्रहेण शब्द इत्यवगृहीत इति यथाश्रुत एव सङ्गच्छत इति मन्यन्ते, तन्मतं प्रतिक्षेप्तुमुपन्यस्यति ।
पृ. ६. पं १० केचित्त्विति-अस्य आहुरित्यनेन सम्बन्धः ।
पृ. ६. पं. १० सङ्केतादिविकल्पविकलस्य-अनेन शब्देनायमर्थों बोद्धव्यः । इदम्पदममुमर्थ बोधयत्वित्यादिपुरुषेच्छालक्षणसङ्केतादिज्ञानरहितस्य, जातमात्रस्य तत्क्षणादावेव जातस्य ।
पृ. ६. पं. ११ सामान्यग्रहणं-अशेषविशेषानवगाहिमहासामान्यसन्मात्रावगाहिज्ञानम् अर्थावग्रहणमिति शेषः ।
पृ. ६. पं. ११ परिचितविषयस्य तु-गृहीतसङ्केतादिकस्य पुंसः पुनः ।
पृ. ६. पं. ११ आद्यसमय एव-प्रथमशब्दश्रवणसमय एव, विशेषज्ञानं-शब्दोऽयं रूपादिरयमित्येवंविशेषनिश्चयात्मकं ज्ञानम्, अर्थावग्रहणमित्यत्रापि ज्ञेयम् । __ पृ. ६. पं. १२ एतदपेक्षया-परिचितविषयममातृनिष्ठविशेषज्ञानलक्षणा
वग्रहापेक्षयाः यथा च परिचितविषयस्य पंस आद्यसमयेऽपि शब्दोऽयमिति निश्चयात्मकं ज्ञानम्भवति, तथा ततोऽपि परिचिततरविषयस्य पटुतरमतेस्तन्निश्चयादप्यधिकतरशाङ्कत्वादिविशेषनिर्णयात्मकं ज्ञानमाद्यसमय एव भवेत, पुरुषेषु शनितारतम्यस्योपलभ्यमानस्यापनेतुमशक्यत्वात् , न चैतदिष्टापादनतया परि