________________
१. प्रमाणपरिच्छेदः। स्यादिति पर्यवसितं विवादेन, तस्मादमदभ्युपगतार्थावग्रहकालात्याकाले एव सोऽभ्युपेयः, न च सम्भवति, तत्कालस्य व्यञ्जनावग्रहत्वेनार्थपरिशून्यत्वात्तदानीं कस्याप्यर्थस्य सामान्यरूपस्य विशेषरूपस्य वा प्रतिभासासम्भवादिति ।
पृ. ६. पं. २ स च-अस्मदभ्युपगतार्थावग्रहकालपूर्वकालश्च । ननु शब्दत्वं यद्यावग्रहे गृहीतं न स्यात्तदा तदनन्तरं क एष शब्द इत्येवमीहायाः प्रवृतिर्न स्यादतः शब्दत्वेन शब्दावग्राहित्वमर्थावग्रहस्याभ्युपेयमित्याशङ्कते।
पृ. ६. पं. ३ नन्वनन्तरमिति-अर्थावग्रहानन्तरम् , “न उण जाणइ के वेस सद्देत्ति” नन्दिसूत्रे-न पुनर्जानाति, को वैष शब्द इत्येवं शब्दावान्तरशाङ्खत्वादिविशेषापरिज्ञानस्यैवोक्तत्वेन शब्दत्वलक्षणसामान्यपरिज्ञानन्तत्रानुमतमेव । नहि शब्दत्वेन रूपेण शब्देऽगृहीते शब्दत्वावान्तरविशेषमार्गणं युज्यते, सामान्यावान्तरधर्मेण धर्मिजिज्ञासायां सामान्यधर्मप्रकारकज्ञानस्य हेतुत्वादिति शङ्कितुरभिप्रायः । यत्र कुत्राऽपि शब्दात्मकवस्त्ववग्रहस्वरूपोपवर्णनं, तत्र सर्वत्र शब्दवस्तुस्वरूपवाचकस्य शब्द इत्येवंरूपस्य शब्दस्य प्रयोगो वक्तैव तत्प्ररूपको विदधाति, न तु तत्र ज्ञाने शब्दत्वेन शब्दोऽवभासते; तथा सत्येकसामायिकत्वमथावग्रहस्य भज्येत, अपि तु अर्थावग्रहे अव्यक्तशद्वस्वरूपप्रतिभासनमेव सूत्रसम्मतम् , अव्यक्तज्ञानञ्चानाकारोपयोगरूपमव्यक्तशद्धार्थग्राहकमेवेति समाधत्ते ।
पृ. ६. पं. ५ न, "शब्दः शब्दः" इति भाषकेणैव भणनात् अर्थावग्रहेऽव्यक्तशब्दश्रवणस्यैव सूत्रे-नन्द्यध्ययने “से जहा नामए केइ पुरिसे अव्यत्तं सदं सुणेजत्ति" अस्मिन्सूत्रे अत्र अव्यक्तमित्यस्य शद्धोऽयम् , रूपादिवेत्यादिना प्रकारेणाव्यक्तमित्यर्थः, अर्थावग्रहस्यानाकारोपयोगरूपतया सूत्रे पठितत्वेनानाकारोपयोगत्वस्य सामान्यमात्रविषयकत्वे सत्येव घटमानत्वेन शद्ध इत्येवमुल्लेखस्य शाङ्खशाङ्गभेदापेक्षयाऽव्यक्तत्वेऽपि महासामान्यसत्तापेक्षया व्यक्तत्वस्यैव भावेन तस्याव्यक्तशद्वार्थत्वासम्भवादिति भावः ।
पृ. ६. पं. ७ अस्य-अर्थावग्रहस्य ।
पृ. ६. पं. ७ तन्मात्रविषयत्वात्-अव्यक्तमहासामान्यसन्मात्रविषयस्वात् । ननु सूत्रेऽव्यक्तशद्धश्रवणं व्यञ्जनावग्रहेऽव्यक्तभानमाश्रित्यैव भविष्यतीत्यत आह ।
૧૧